________________
श्रीजैन
कथासंग्रहः
11411
॥ ५३ ॥ एकेनोच्छालिता काष्ठ खण्डरूपा अणुलिका ' । न साऽन्यैबलकैर्दृष्टा, पश्यद्भिरपि सर्वतः ॥ ५४ ॥ कृत्वैकेन ततो गाथा, शिशुना कथिता क्षणात् । प्राग्भवाभ्यासतो विद्या, पुमांसमनुगच्छति ॥ ५५ ॥ इओ गया इओ गया, मग्गिजंती न दीसति । अहमेयं विजाणामि, अगडे छूटा अणुल्लिया ॥ ५६ ॥ साधुना पठिता सापि, प्रमोदं बहता हृदि । पठितं सुन्दरं यादृक्, तादृग् वा सकलं सदा ।। ५७ ।। विशालायां समेति स्म, कियद्भिर्दिवसैर्मुनिः । कुम्भकारगृहे रात्रौ वसति स्म समाधिना ।। ५८ ।। खाट्कारानुन्दिरः कुर्वन्, परिभ्राम्यन्नितस्ततः । कुम्भकारेण विज्ञातः, प्रोक्ता गाथा च तं प्रति ।। ५९ ।। सुकुमालग! भद्दलगा ! रत्तिं हीण्डणसीलगा ! । भयं ते नत्थि मंमूला, दीहपिट्ठाउ ते भयम् ।। ६० ।। तयापि पठिता साधु-र्मन्यते स्म मनोऽन्तरे । प्राप्ता नु स्वर्गवी - चिन्ता - रत्न - कल्पद्रुमत्रयी ।। ६१ । अत्रान्तरे पुरे तत्र, दीर्घपृष्ठेन मन्त्रिणा । प्रच्छन्नं स्वयमानीय, स्वसा राज्ञोऽस्ति गोपिता ।। ६२ ।। भूपं केनाप्युपायेन, व्यापाद्य प्राक्तनं मया । स्वपुत्रो नृपतीकृत्य, परिणाय्योऽनया सह ।। ६३ ।। हृदि चिन्तितमित्यास्ते, तेन दुष्टेन मन्त्रिणा । गृह्यते नोपकारैर्यं दुर्जनो भुजगोऽपि च ।। ६४ ।। प्रस्थाप्य सेवकान् 'भग्नी, सर्वत्रापि विलोकिता। न लब्धा भूभुजा वेत्ति, कार्य को ह्यक्षसाक्षिकम् ? ।। ६५ ।
१ मोइ इति भाषायाम् । २. भगिनी
यवराजर्षिकथा |
॥६॥