________________
बवराजर्षिकथा।
शिक्षितोऽन्येयुः, पठ वत्स! त्वमुखतः । मोक्षाम्वदर्शने नेत्रं, तृतीयं श्रुतमजिनाम् ॥ ४२ ॥ तेनोक्तं भगवन् ! पाठो, वृद्धस्या याति मे नहि। युष्मत्पदावुपासीन-स्तप्स्येऽहं दुस्तरं तपः॥४३॥ कियत्यपि गते काले, गुरुणा ज्ञानशालिना । पश्यता भाविनं लाभ-मादिष्टः सुष्टु सोऽन्यदा॥४॥ विहर त्वं विशालायां, प्रतिबोधयितुं सुतम् । अन्येषामपि तत्रास्ति, पुण्यलाभोऽङ्गिनां महान् ॥ ४५ ॥ गुरूणां वचनं सम्यक, शिरसा प्रत्यपादि सः । गुर्वाज्ञा यद्विधीयेत', मुख्यो मोक्षपथः स हि॥४६॥ गुरुभ्यः प्राप्य शिक्षा सः, विशाला प्रत्यऽथाचलत्। वहतः पथि संजाता, चिन्ता तस्येति चेतसि॥७॥पाठो नाऽऽयाति मेऽल्योऽपि, किं पुत्रस्योपदेश्यते ? । उपदेशं विनाऽन्येऽपि, बोधनीया जनाः कथम् ?॥४८॥ अत्रान्तरे खरः कश्चि-दारतः परतो दृशम् । क्षिपन् भक्षयति क्षेत्रो-दूतं धान्यं जवाभिधम् ॥४९॥ तं वीक्ष्य क्षेत्रपालेन, गाथैका पठिता क्षणात् । विजातेरपि विधा स्यात्, प्राग्जन्मकृतकर्मणा ॥५०॥ आपावसी पपावसी, मम वा 'वि निरिख्खसी। लख्खिओ ते मया 'भावो, जवं पत्थेसि गहमा!॥५१॥ आकर्ण्य स महात्मापि, विस्मितः पठति स्म ताम् । अमोघमायुधं प्राप्त-मिवामन्यत मानसे ॥५२॥ विद्यावत्तां स्मरन्मार्ग, यावदने प्रयाति सः । रमते समया ग्राम-मेकस्तावच्छिशुव्रजः १विधातव्या व पाठन्तरम् । ३ अभिप्यामो पा.।
॥५॥