________________
श्रीजैन कथासंग्रहः
॥४॥
गुणशिक्षाव्रतात्मकः ॥ २८ ॥ गृह्णन्ति स्म जना धर्म, यथायोग्यं स्वशक्तितः । सत्क्षेत्रवृष्टिवत् पात्रोपदेशो न मुधा भवेत् ॥ २९ ॥ विज्ञप्ता गुरवो राज्ञाऽत्रान्तरे वहता मुदम् । राज्ये न्यस्य सुतं दीक्षां ग्रहीष्ये युष्मदन्तिके ।। ३० ।। गुरुणा कथितं राजन्!, प्रमादमिह मा कृथाः । भाग्यैः पुराकृतैरेवं, सम्पद्यन्ते मनोरथाः ॥ ३१ ॥ शिरसा देवशेषावत्, प्रतिपद्य गुरोर्गिरम्। समागत्य पुरे राजा, सुतं राज्ये न्यवीविशत् ॥ ३२ ॥ अपत्यवत् प्रजा वत्स ! पालनीया त्वया सदा । प्रजानुरागिणी यत्र, स्यात्तत्र श्रीः पतिव्रता ॥३३॥ दानभोगादिभिर्लक्ष्मीः, क्षीयते न महीभुजाम् । प्रजासन्तापशापैः सा, रक्ष्यमाणापि नश्यति ॥ ३४ ॥ अन्यायः शत्रुवत्त्याज्यः, श्रयो न्यायश्च मित्रवत् । लक्ष्मीलताऽम्बुदे धर्मे, भाव्यं यद् भवता त्वया ॥३५॥ मद्वत्साम्राज्यमुज्झित्वा, जाते पुत्रे त्वयाऽपि हि । दीक्षा ग्राह्याऽन्यथा राज्यं, नरकाय प्रजायते ॥ ३६ ।। शिक्षयित्वैवं पुत्रं स्व-मनुज्ञाप्याखिलाः प्रजाः । प्रभाव्य शासनं जैनं गृह्णाति स्म नृपो व्रतम् ॥ ३७ ।। स्वर्णाद्रिस्तावदुत्तुङ्गः, पारावारश्च दुस्तरः । कष्टा कार्यागतिर्याव-न धीरैः प्रतिपद्यते ॥ ३८ ॥ गर्दभिल्लनृपोऽमात्याः, पौरा जनपदो जनः । वन्दित्वाऽन्तर्गताः सर्वे यथाजातं चमत्कृताः ।। ३९ । वैय्यावृत्त्यरतः सार्द्ध, गुरुणा विहरत्यसी । तप्यमानस्तपस्तीव्रं युक्तमेवं हि तादृशाम् ॥ ४० ॥ स्मरन् पञ्चनमस्कारं सारं सिद्धान्तवारिधेः । स्वाध्यायमप्रमत्तोऽपि न पठत्यशठः परम् ॥ ४१ ॥ गुरुणा
यवराजर्षिकथा ।
॥४॥