SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२॥ पल्प सुप्तवानस्ति, दिव्ये भूपतिरेकदा । प्रबुद्धः प्रहरे रात्र्याः, पश्चिमे स्वयमेव सः ॥ ४ ॥ चित्तमध्ये तदा जाता, चिन्ता तस्येति निश्चितम् । प्राग्भवे सुकृतं किञ्चिन्मया दानादि निर्मितम् ॥ ५ ॥ तस्य प्रभावतो वार्द्ध- पर्यन्ते पृथिवीतले । आज्ञाऽस्त्यऽस्खलिता राज्यं मम पालयतः सतः ॥ ६ ॥ कल्लोलचपला अश्वा, गजेन्द्रा जङ्गमाद्रिवत् । मम सन्ति रथाः कान्ताः शूराश्चापि पदातयः ॥ ७ ॥ मम देशे न दुर्भिक्षं, म भयं नेतयः क्वचित् । नीरोगाः सकला लोकाः, समृद्धाः स्युः सुपर्ववत् ॥ ८ ॥ प्राग्जन्मसुकृतात् प्राप्तं, राज्यमित्यधुनापि चेत् । कुर्वे पुण्यं तदाऽऽगामी - भवः स्यान्मम सुन्दरम् ॥ ९ ॥ इति चिन्तयतस्तस्य प्रभातसमयोऽभवत् । पल्यङ्कादुत्वितो राजा, सभायामुपविष्टवान् ।। १० । देशाधिपतिभिर्मन्त्रि-जनैश्च व्यवहारिभिः । अन्यैरपि समन्तात् स, नत्वा परिवृतस्तदा ।। ११ ।। अत्रान्तरे समागत्य, वनपालेन भूपतिः । मस्तकन्यस्तहस्तेन, विज्ञप्तोऽवनतात्मना ॥ १२ ॥ नगराइहिरायाता, बने सद्गुरवोऽधुना । आत्मनः पदयोन्यसात्, पावयन्तो महीतलम् ॥ १३ ॥ मेघगर्जितवत्केकी, श्रुत्वा तस्य गिरं नृपः। चिसे प्रमुदितोऽत्यन्त-मङ्गे पुलकितस्तथा ।। १४ ।। सर्वाङ्गाभरणं तस्मै दत्त्वा मुकुटवर्जितम् | कारितोद्घोषणा राज्ञा, नगरे निजपूरुषैः ॥ १५ ॥ वन्दितुं श्रीगुरून् सर्वे-रागम्यं नगराट् बहिः । राजाऽपि यास्यति प्रौढ - भाग्यैरेवं दिनोदयः ॥ १६ ॥ तत् श्रुत्वा सकलो लोकः, प्रमोदभरमावहन् । इष्टं वराजर्विकथा | ॥२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy