________________
॥अहम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पर-हेमचंद्र सदुरुभ्यो नमः॥
श्रीजैन कथासंग्रहः
यवराजर्षिकथा।
ज्ञानोपरि
॥१॥
श्रीयवराजर्षि-कथा।
यादृशं तादृशं शाखं, पठितं न निरर्थकम्। . विपदः कचिदुत्तार-स्तादृशादपि जायते ॥१॥
अत्र यवराजर्षिकथाविशालास्ति पुरी जैन-प्रासादैरतिसुन्दरा। जयन्ती स्व:पुरीमात्म-धनधान्यसमृद्धिभिः॥१॥ यवस्तत्रास्ति भूपालो, न्यायश्रीकेलिमन्दिरम् । प्रजानां पालको दुष्टा-निगृहन् भाग्यभासुरः ॥ २॥ गर्दभिल्लः सुतस्तस्य, पुत्रिकाऽणुल्लिकाऽस्ति च । दीर्घपृष्ठो महामात्यो, मुख्यः सर्वेषु मन्त्रिषु ॥३॥
॥२॥