________________
श्रीजैन
.
मङ्गलकलश कथानकम्।
कथासंग्रहः
॥१९॥
सोमचन्द्रोऽध तत्सुहृत् । व्ययति स्म यथास्थानं तद् द्रव्यं शुद्धचेतसा ॥ २२६ ॥ आत्मीयमपि तस्यानुसारेणावं व्यवाद् 'वृषम् । तज्ज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ २२७ ॥ तस्मिन्नेव पुरे तस्याः सखी भवाऽभिधाऽभवत्। नन्दनश्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी॥२२८॥ देवदत्तः स कालेन कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततो भद्रा तत्प्रिया विषसाद सा ॥ २२९ ।। पुरः सख्यास्तयाऽन्येचुस्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंश्रमम् ॥ २३० ॥ हले त्वत्सदोषेण कुष्ठी जज्ञे पतिस्तव। ममापि दृष्टिं माऽगास्त्वमतोऽपसर दूरतः ।। २३१ ॥ सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयैवाहादिता ततः ॥ २३२ ॥ स सोमचन्द्रः श्रीदेव्या तया सार्द्धच भार्यया। साधुसंसर्गतः प्राप्तं श्रादधर्ममपालयत् ।। २३३ ॥ अन्ते समाधिना मृत्वा सौधर्म त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ २३४ ॥ सौधर्मात्सोमचन्द्रात्मा व्युत्वाऽभूद भूपतिर्भवान् । जीवश्व्युत्वा च श्रीदेव्या जज्ञे त्रैलोक्यसुन्दरी॥२३५ ॥ परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा। तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ २३६ ॥ हास्येनापि वयस्यायै यहत्तमनया पुरा। तदेतस्यामिह भवे कलङ्गः समभूद ध्रुवम् ॥ २३७ ॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे। १धर्मम् ।
॥१९॥