SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कथासंग्रह कथानकम् । ॥१८॥ सुरसुन्दरभूपाल: परिव्रज्यामुपाददे ॥ २१२ ॥ राज्ये संस्थापितः कोऽपि वणिग्जातिरितीय॑या । प्रत्यन्तपार्थिवा राज्यं हतु तस्योपतस्थिरे ॥ २१३ ।। सेनया चतुरङ्गिण्या सहितेन महौजसा । रदपुण्यप्रभावेण जिताः सर्वेऽपि तेन ते॥२१४॥शान्ताऽमित्रस्य तस्याच राज्यं पालयतः सतः। पन्यां त्रैलोक्यसुन्दा सुतोऽभूजयशेखरः ॥ २१५ ॥ स च राजा निजे देशे जिनचेत्यान्यनेकशः । जिनार्चा रथयात्राथेत्यादिधर्ममकारवत् ॥ २१६ ।। अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः स भूपतिः ।। २१७ ।। पप्रच्छच यथा केन कर्मणा भगवन्मया। प्राप्ता विडम्बनोद्वाहे देव्या प्राप्त च दूषणम् ॥ २१८॥ सूरिरूचेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ २१९ । आसीत्तत्र सोमचन्द्राभिधानः कुलपुत्रकः। श्रीदेवी च तद्धार्याऽभूत् तौ मिथःप्रीतिशालिनी ॥ २२० । सोमचनाः प्रकृत्याऽसावार्जवादिगुणान्वितः। मान्यः समस्तलोकानां तस्य भार्या च ताशी ॥ २२१ ॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ।। २२२ ।। जिनदेवोधनाकासी भने सत्यपि सोऽन्यदा। देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ २२३ ॥धनायाहं गमिष्यामि मयि तत्र गते त्वया। मामकीनं धनं सप्तक्षेत्र्यां-वाप्यं यथाविधि ॥ २२४ ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ २२५ ॥ गते देशान्तरे तस्मिन् ॥१८॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy