________________
श्रीजैन कथासंग्रहः
मङ्गलकलश कथानकम्।
॥१६॥
मनोहरम् ॥१८५॥ उवाच च कलाचार्यमेतन्मध्यात् त्वदाज्ञया । यो जानाति स आख्यातु छात्रो मम कथानकम् ॥ १८६ ॥ सर्वैरपीjया छात्रैनिर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्तुमेवं प्रचक्रमे ॥ १८७॥ चरितं कल्पितं किंवा कथयामि कथानकम् । साऽवदच्चरितं ब्रूहि पर्याप्तं कल्पितेन भोः ! ॥१८८ ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी। चम्पापुर्या भाटकेन परिणीता हि या मया ॥१८९ ॥ केनापि हेतुनेहागाद् भूत्वा पुंवेषधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् ॥१९०॥ जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥१९१ ॥ ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता। तावद्यावदमात्येन गृहानिर्वासितोऽस्म्यहम् ॥१९२॥ अत्रान्तरे कृतालीककोपा राजसुताऽवदत् । अमुं गृहीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ १९३ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थ समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो गृहान्तरे ॥ १९४ ॥ अथैनमासनेऽभ्यास्य सिंहमूचे नृपात्मजा। अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ १९५ ॥ किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशतितम्॥१९६ ॥ सोचे सिंह तवाद्यापि चित्ते यद्यस्ति संशयः। ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय॥१९७ ॥ तद्विधातुमथो सिंहो धनदत्तगृहं ययौ । सोऽग्रे छात्रमुखात् पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् ॥ १९८ ॥ पुत्रस्य
॥१६॥