SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१४॥ द्दष्ट्वाऽनादरपरामन्येद्युः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ।। १५८ ।। सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञपयामास प्रस्तावे वदतांवरः ।। १५९ ।। नृनाथ ! भवता मान्यचरी सम्प्रत्यसम्मता । वराकी वर्त्तते कष्टे सैषा त्रैलोक्यसुन्दरी ।। १६० ।। अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ।। १६१ ।। पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह ! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ।। १६२ ।। तदियं तत्प्रभावेण कलङ्किततनूरभूत् । इष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ! ॥ १६३ ॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ १६४ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेषं कुमारोचितमर्पय ॥ १६५ ॥ भूयो राजाऽब्रवीत् सिंहं किमिदं वक्त्यसौ वचः । सोsवदद्देव ! युक्तं हि क्रमोऽस्ति यदयं किल ।। १६६ ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । पुंवेषं याचते तस्यै दातव्यः स न संशयः ॥ १६७ ॥ ततस्तदनुमत्याऽस्यै पुंवेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थं बलान्वितम् ।। १६८ ।। अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद्भवेत्तव । उज्जयिन्यां ततो यामि . कारणेन गरीयसा ।। १६९ ॥ कारणं कथयिष्यामि तज्जाते च समीहिते। अधुना कथिते तस्मिन् परिणामो न शोभनः ।। १७० ।। हे पुत्र ! मम वंशस्य यथा नाभ्येति दूषणम्। तथा कार्य्यं त्वयेत्युक्त्वा विसृष्टा सा मङ्गलकलश कथानकम् । ॥ १४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy