________________
श्रीजैन कथासंग्रहः
॥१३॥
पुत्रकः ॥ १४४ ॥ स्वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥१४५ ।। तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं गुणदोषयोः ॥ १४६ ॥ (युग्मम्) | स्वकर्म्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्पुत्री मे दोषभाजनम् ॥ १४७ ॥ डूचे च सचिवाऽनर्थमकार्षमहमीद्दशम्। नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ।। १४८। अमात्योऽप्यब्रवीत् स्वामिन्! हितकार्यं प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ।। १४९ ।। अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ १५० ॥ न कोऽप्येनामाललाप नाभ्यनन्दत् द्दशाऽपि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः ।। १५१ । अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा ?। येन क्वापि ययौ नंष्ट्वा परिणीतः स मे पतिः ।। १५२ ।। अन्यच्च लोकमध्येऽदः कलङ्कं समुपस्थितम् । किं करोमि क्व गच्छामि ? व्यसने पतिताऽस्मि हा ।। १५३ । T एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा । भवितोज्जयिनीपुर्य्यां प्राप्तो नूनं स मे पतिः ।। १५४ । तदा च मोदकांस्तेन भुक्त्वा संजल्पितं किल । एते हि मोदका रम्याः किंत्ववन्त्या जलोचिताः ।। १५५ ।। ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तदान्विष्य मिलित्वाऽस्य भवामि सुखभागिनी ।। १५६ । अथान्येद्युरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ।। १५७ ।। तां
मङ्गलकलश कथानकम् ।
॥१३॥