________________
कथासंग्रहः
मालकलश कथानकम्।
॥१२॥
--
शव्यायाः समुत्थाय नियंयौ भवनादहिः॥१३२॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्ममा ?। साउवदद्देवतारूपी गतः क्वापि स मे पतिः ॥ १३३ ॥ प्रत्यूचुस्ता इदानीं स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥१३४ ॥ दासीमध्ये ततः सुप्ता तामतीत्य विभावरीम्। त्रैलोक्यसुन्दरी प्रातर्ययो पितृगृहं निजम् ॥ १३५ ।। सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येधुश्चिन्ताश्याममुखः किल ।।१३६ ॥ कृतप्रणतिमासीनमथैनं पृथिवीपतिः। हर्षस्थाने विषादः किंतवत्यूवे कृताऽग्रहः॥१३७ ॥ स जगाद महाराज! विचित्रा कर्मणां गतिः । अस्माकं मन्दभाग्यानां 'वशात्परिणता कथम् ? ॥१३८॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ १३९ ॥ राजा प्रोवाच हे मन्विन् ! उक्त्वा स्वं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु॥१४०॥ निःश्वस्य सचिवोऽप्यूचे देव! दैवं करोति तत् । यद्वक्तुमपि नो शक्यमश्रद्धेयं चपृण्वताम् ॥ १४१ ॥ स्वामिपादः सप्रसादैर्दत्ता सूनोर्ममात्म जा। तस्यां तु परिणीतायां यद् वृत्तं तन्निशम्यताम् ।। १४२॥ यादृग राज्ञा स्वयं दृष्टस्ताहगेव सुतो मम। अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ? ॥१४३॥ तच्छुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी। अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य
--
--
१वज्ञ इच्छा
॥१२॥