________________
श्रीजैन कथासंग्रहः
मङ्गलकलश कथानकम्।
॥११॥
रथाऽऽरूढं विलोक्य तम्। बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम् ॥११९॥प्रेर्यते गृहमध्येन राजपुत्र ! कथं रथः । कर्तास्यभिनवं मार्ग किं त्वं त्यक्त्वा पुरातनम् ? ॥ १२०॥ इत्थं निषिध्यमानोऽपि न यावद्विरराम सः । आचख्यौ श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ १२१ ॥ श्रेष्ठयप्यस्य निषेधार्थ गृहाद्यावनिरीयिवान् । तावद्रथात्समुत्तीर्य पितुः पादौ ननाम सः ॥ १२२ ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः। सद्यः प्रादुर्भवद्धर्षाश्रुपूरप्लावितेक्षणम् ॥ १२३ ॥ पप्रच्छ चोपविष्टः सन् वत्सर्द्धिः कुत ईद्दशी? । क्व वा कालमियन्तं त्वं स्थितोऽसि वद नन्दन ! ॥१२४ ।। ततश्चात्मकथा तेन पितुरग्रे निवेदिता। वाक्श्रुत्यपहारादि स्वस्थानागमनावधि॥१२५॥ अहो! पुत्रस्य सौभाग्यमहो! पुत्रस्य दक्षता । अहो ! धैर्य्यमहो ! भाग्यमिति प्राशंसतामिमौ ॥ १२६ ॥ ततः प्राकारसंगुप्तं स स्वगेहमकारयत् । अश्वानां रक्षणार्थ च मन्दुरादिनियन्त्रणम् ।। १२७ । सोऽन्येधुर्जनकं स्माह मम तात! कलागमः । स्वल्पोऽस्त्यद्यापितं पूर्ण करिष्यामि त्वदाज्ञया॥१२८॥ ततश्चानुमतः पित्रा कलाचार्य्यस्य सन्निधौ। कलाभ्यासं चकारासौ स्वकीयसदनान्तिके॥१२९ ॥ इतश्च मन्त्रिणा तेन रात्री मङ्गलवेषभृत् प्रेषितो वासभवने वधूपान्ते सुतो निजः॥१३०॥शय्यारूढंच तं दृष्ट्या दथ्यो त्रैलोक्यसुन्दरी। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ १३१ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा
॥११॥