________________
श्रीजैन कथासंग्रहः
मङ्गलकलश कथानकम्।
॥१०॥
सिंहकेसराः ॥१०६॥ उजयिन्या नगाश्चेन्नीरमास्वाद्यतेऽमलम् । तदा तृप्तिर्भवेन्नूनं मोदकेष्वशितेष्वपि ॥१०७॥ तच्छुत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो अघटमानं किं वाक्यमेष प्रजल्पति ? ॥१०८॥ मातृगेहमथावन्त्यामार्यपुत्रस्य भावि वा। तदसौ दृष्टपूर्वत्वाजानात्यस्याः स्वरूपताम् ॥१०९॥ ततश्च निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ॥ ११०॥ सन्ध्याकाले पुनर्मन्त्रिमानुषैः प्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ १११ ॥ गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणाऽऽगन्तव्यमादाय पुष्करम् ॥ ११२ ॥ निरगाच्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः ! क्वास्ति तद्वस्तु मामकम् ।। ११३ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यैकरथे वरे ॥ ११४ ॥ तस्मिंश्च योजयित्वाऽश्वांश्चतुरः पृष्ठतस्तथा। बवैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत्॥११५॥ (युग्मम् ) ॥ पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगानराः प्रत्येकं कथयन्ति स्म नामग्राहं मुहर्मुहुः ॥ ११६ ॥ ततो रथाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥ ११७ ॥ इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घौ:र्गतशोको बभूवतुः॥११८॥ गृहाभिमुखमायान्तं १जलम्।
॥१०॥