SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मङ्गलकलश कथानकम्। ॥१०॥ सिंहकेसराः ॥१०६॥ उजयिन्या नगाश्चेन्नीरमास्वाद्यतेऽमलम् । तदा तृप्तिर्भवेन्नूनं मोदकेष्वशितेष्वपि ॥१०७॥ तच्छुत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो अघटमानं किं वाक्यमेष प्रजल्पति ? ॥१०८॥ मातृगेहमथावन्त्यामार्यपुत्रस्य भावि वा। तदसौ दृष्टपूर्वत्वाजानात्यस्याः स्वरूपताम् ॥१०९॥ ततश्च निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ॥ ११०॥ सन्ध्याकाले पुनर्मन्त्रिमानुषैः प्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ १११ ॥ गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणाऽऽगन्तव्यमादाय पुष्करम् ॥ ११२ ॥ निरगाच्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः ! क्वास्ति तद्वस्तु मामकम् ।। ११३ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यैकरथे वरे ॥ ११४ ॥ तस्मिंश्च योजयित्वाऽश्वांश्चतुरः पृष्ठतस्तथा। बवैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत्॥११५॥ (युग्मम् ) ॥ पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगानराः प्रत्येकं कथयन्ति स्म नामग्राहं मुहर्मुहुः ॥ ११६ ॥ ततो रथाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥ ११७ ॥ इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घौ:र्गतशोको बभूवतुः॥११८॥ गृहाभिमुखमायान्तं १जलम्। ॥१०॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy