SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मालकलश कथानकम्। ॥९॥ समासन्ने ततो लग्ने हस्तिस्कन्धाधिरोपितः। स निन्ये भूपते: पावे वस्त्राभरणभूषितः॥१३॥ त्रैलोक्यसन्दरी साऽथ दृष्टा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या कृतार्थ स्वं मनस्विनी ॥ ९४ ॥ ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वहिं प्रेमतुर्मङ्गलानि तौ ॥ ९५ ॥ प्रथमे मङ्गले राजा चारुवस्त्राण्यनेकशः। वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥ ९६ ॥ तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः ॥ ९७॥ कृतोद्वाहे वरे चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते ? ॥ १८ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम्। . तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः ।। ९९ ॥ वाद्यमाने ततस्तूर्ये भवद्धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्वा स मङ्गलः ॥१००॥ तत्रामात्यगृहजनश्छन्नं छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः॥ १०१॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गित्तैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ १०२॥ ततः क्षणान्तरेणाऽसौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा॥१०३॥ कृतायामपि तस्यां तं शून्यचितं रह:स्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां शुभा नु किम् ? ॥ १०४॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वगृहात्तस्मै ददी त्रैलोक्यसुन्दरी ।। १०५॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः ॥९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy