SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मालकलश कथानकम्। ॥९॥ समासन्ने ततो लग्ने हस्तिस्कन्धाधिरोपितः। स निन्ये भूपते: पावे वस्त्राभरणभूषितः॥१३॥ त्रैलोक्यसन्दरी साऽथ दृष्टा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या कृतार्थ स्वं मनस्विनी ॥ ९४ ॥ ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वहिं प्रेमतुर्मङ्गलानि तौ ॥ ९५ ॥ प्रथमे मङ्गले राजा चारुवस्त्राण्यनेकशः। वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥ ९६ ॥ तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः ॥ ९७॥ कृतोद्वाहे वरे चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते ? ॥ १८ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम्। . तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः ।। ९९ ॥ वाद्यमाने ततस्तूर्ये भवद्धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्वा स मङ्गलः ॥१००॥ तत्रामात्यगृहजनश्छन्नं छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः॥ १०१॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गित्तैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ १०२॥ ततः क्षणान्तरेणाऽसौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा॥१०३॥ कृतायामपि तस्यां तं शून्यचितं रह:स्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां शुभा नु किम् ? ॥ १०४॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वगृहात्तस्मै ददी त्रैलोक्यसुन्दरी ।। १०५॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः ॥९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy