SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मङ्गलकलश कथानकम् । ॥७॥ , गृहे नीत्वा सगौरवम् ॥६७॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च 'दिवानिशम् ॥६८॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते निर्गमं चैव यत्नाद् रक्षति मन्दिरात् ॥ ६९ ॥ पप्रच्छ चान्यदाऽमात्यं तात ! वैदेशिकस्य मे । किमिदं माननं हन्त भवद्धिः क्रियतेऽधिकम् ॥७०॥ का नामैषा पुरी को वा देशः को वाऽत्र भूपतिः ? । इति सत्यं ममाऽऽख्याहि विस्मयोऽत्र प्रवर्त्तते ॥७१॥ अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा । अङ्गाभिधानो देशश्च राजाऽत्र सुरसुन्दरः ।। ७२ ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनीतोऽसि वत्स ! त्वं कारणेन गरीयसा ।। ७३ ।। त्रैलोक्यसुन्दरी नाम राज्ञा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ॥७४॥ परिणीय त्वया भद्र ! विधिना सा नृपाङ्गजा। दातव्या मम पुत्राय तदर्थ त्वामिहाऽऽनयम् ।।७५।। तच्छुत्वा मङ्गलोऽवोचदकृत्यं किं करोष्यदः । क सा रूपवती बाला निन्धरोगी क ते सुतः ? ॥७६ ॥ कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिप्त्वा जनं मुग्धं वरनाकर्तनोपमम् ।। ७७ ॥ मन्त्र्यूचे चेन्न कर्मेदं करिष्यसि सुदुर्माते ! । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ ७८ ॥ इति निस्त्रिंश माकृष्य भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ ७९ ॥ १. बहिर्गमनं । २.खइगम्। । ॥७॥ .
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy