________________
श्रीजैन कथासंग्रहः
मालकलश कथानकम्।
॥५॥
तदेतयोयोग कये जानन करोम्यहम् ? ।। ४१ ।। अथवाऽयं मयोपायो लब्यो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ ४२ ॥ ततश्चाऽऽराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन् ! स्मृताऽस्मि किम् ?॥४३॥ मन्त्र्यूचे त्वं स्वयं वेत्सि सर्व दुःखस्य कारणम्। तथा कुरु यथा पुत्रो नीरोगानो भवेन्मम ॥ ४॥ देव्यूचे नान्यथाकत्तुं नृणां कर्म पुराकृतम् । दैवतैरपि सक्येत वृवेयं प्रार्थना सव ॥५॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पुरुषम् । तदाकारं निराकल्यं' कुतोऽप्यानीय मेऽपय॥४६॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ।। ४७॥ देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके। शीतव्यथानिरासार्थमग्निसेवापरो हि यः॥४॥ कुतोऽप्यानीय मयका मुक्तो भवति बालकः । स मन्त्रिन् ! भवता ग्राह्यः पश्चात्कुर्य्याद्यथोचितम् ॥ ४॥ (युग्मम्) ॥ इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वा विवाहसामग्री प्रगुणीकुरुते स्म सः ॥५०॥ अथपालनरं छत्रमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥५१॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समप्र्यो मेऽविलम्बितम् ॥५२॥ तं श्रेडिनन्दवं तस्या वरं विज्ञाय भाविनम् । उजयिन्यां ययौ पुर्य्या मन्त्रिणः कुलदेवता॥५३॥ रोगरहितम्।
॥५॥