SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मालकलश कथानकम्। ॥४॥ गुणावली तस्य सा निजोत्सावर्तिनीम् । दृष्ट्या कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ २९ ॥ राजा प्रोवाच हे देवि! तव पुत्री भविष्यति । सर्वलक्षणसम्पूर्णा सर्वनारीशिरोमणिः ॥ ३०॥ पूर्णकालेऽथ चार्वङ्गी सा देवी सुषुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चक्रे महीपतिः ॥३१॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ ३२॥ तां विलोक्यानवद्यानीं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति ।। ३३ ।। बूचे च प्रेयसी: सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता॥ ३४ ॥ ता उचरियमस्माकं जीवितादपि वल्लभा। नालं धत्तुं वयं प्राणान् क्षणमप्यनया विना ॥ ३५॥ दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय !। प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥ ३६॥ ततो राज्ञा समाहूय सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी ॥ ३७॥ अमात्योऽप्यवदद्देव ! किमयुक्तं ब्रवीण्यदः । कस्मैचिद् राजपुत्राय दातुं कन्या तवोचिता ॥ ३८॥ राज्ञोचे न त्वया वाच्यमित्यर्थे किचनाऽपि भोः !। देया त्वत्सूनवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥ ३९ ॥ मन्त्री 'कृतावहित्थोऽथ गृहे गत्वा व्यचिन्तयत् । हा व्याघदस्तटीन्याये पतितोऽस्मि करोमि किम् ?॥४०॥रतिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे। कुष्ठी 'आकारगोपनं कृत्वा ॥४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy