________________
श्रीजैन कथासंग्रहः
11311
रात्रिकं चैव धनदत्तो व्यधात्सुधीः ।। १६ अथ धर्म्मप्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ १७ ॥ पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत । स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् ॥ १८ ॥ जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ।। १९ ।। कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ २० ॥ सोsवदद्वत्स ! गत्वाऽहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ २१ ॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली। आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥ २२ ॥ ज्ञात्वा च श्रेष्ठपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गक (दला) रणादीनि सुस्वादूनि फलान्यलम् ॥ २३ ॥ स्वगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः पूजोपकरणं स्वयम् ॥ २४ ॥ द्वितीये च दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥ २५ ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पिताऽपि तत् ॥ २६ ॥ एवं च कुर्वतस्तस्य धर्माभ्यासं तथाऽन्तरा । कियत्यपि गते काले यज्जातं तन्निशम्यताम् ॥ २७ ॥
अस्त्यत्र भरतक्षेत्रे चम्पा नाम महापुरी। अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ २८ ॥ राज्ञी
मङ्गलकलश कथानकम् ।
11311