________________
श्रीजैन कथासंग्रहः
मङ्गलकलश कथानकम्।
॥२॥
सद्धार्या शीलालकृतिशालिनी । पत्यो प्रेमपरा किन्त्वपत्यभाण्डविवर्जिता ॥ ५॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुःखस्य कारणम् ? ॥६॥श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ ७॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः। स एव सेवनीयो हि विशेषेण सुखैषिणा॥८॥ तत् त्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्यः पुस्तकं चापि लेखय ॥९॥ एवं च कुर्वतो: पुत्रो भावी यदि तदा वरम् । पविता निर्मलो नाथ ! परलोकोऽन्यथाऽऽवयोः ॥ १०॥ हृष्टः श्रेष्ट्यप्युवाचैवं प्रिये ! साधूदितं त्वया। सम्यगाराधितो धो भवेचिन्तामणिनृणाम्॥११॥ ततश्च देवपूजार्थ पुष्पग्रहणहेतवे । आकार्याऽऽरामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ १२॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे। गृहाच्यापर्ववित्वा च गच्छति स्म जिनालये॥१३॥ तत्र नैवेधिकीमुख्यान् यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्त्या विदघे चैत्यवन्दनाम् ॥ १४॥ ततः साधून नमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥ १५॥ अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम्। आह्निकं
.
.
.
१-तिनि निसीही तिनि उ पयाहिणा र तिन्नि चेव व पणामा ३१ तिविहा पूया यतहा४ अवत्वतियभावणं ५ चेव ॥१॥ तिदिसिनिरिक्खणविरई ६ पयभूमिपमजणं च निक्खुत्तो वनाइतियं ८.मुदा तियं ९ च तिविहं च पणिहाणं १०॥२॥
॥२॥