SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 112011 पपात, भृत्यैः खेटकैरेवाच्छादितः । कुमारेण चिन्तितम् । प्रातर्मृत एवासौ चौरः पापं मे भावि । ततो मुक्त एव वरं इति ध्यात्वा स मोचितस्तत्क्षणे ययौं, नृपाग्रे कथनाय भृत्या वारिताः । प्रभाते राज्ञा चोराप्राप्तिविलक्षेण पृष्टम्, चौरो न चटितः ? इति । सर्वैरुक्तम्, न चटितः । ततः सभायां विसर्जितायां कुमारभृत्यैश्चौरमोचनस्वरूपं राजदण्डभीतैः स्वयमेव ज्ञापितम् । राज्ञा कुपितेन कुमारो देशत्यागं कारितः । स भ्रमन् भद्दिलपुरं गतः, स कुमारस्तंत्र भिक्षार्थं प्रविष्टः । रुष्टो विधिः किं न करोति । यतः- यस्य पादयुगपर्युपासना-नो कदापि रमया विरम्यते । सोऽपि यत्परिदधाति कंबलं, तद्विधेरधिकतोऽधिकं बलम् ।। ५९ ।। ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येनं दशावतारगहने क्षिप्तो महासङ्कटे रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ६० ॥ तेन कुमारेण तत्र कर्मवशात् सक्तुभिक्षा लब्धा, स तान् सक्तूनादाय सरसीतले शीतलेन पयसा भोक्तुं सज्जयति स्म, चिन्तितम्, यदि कोऽपि याचकोऽभ्येति तदा तस्मै किंचिद्ददामि । तावता तद्भाग्यात् कोऽपि मासोपोषितः साधुस्तन्मार्गेऽचलत् । स मुदितस्तमाहूय प्राञ्जलिः प्रोचेअद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वाहनं भववार्थी । अद्य चिन्तितमणिः करमागाद्वीक्षितो यदि भवान्मुनिराजः ॥ ६१ ॥ इत्युक्त्वा सक्तुपिण्ड उत्पाटितः । साधुना करणवेला पृष्टा । तेनोक्ता। सावशेषं चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा. ॥२७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy