________________
श्रीजैन कथासंग्रहः
112011
पपात, भृत्यैः खेटकैरेवाच्छादितः । कुमारेण चिन्तितम् । प्रातर्मृत एवासौ चौरः पापं मे भावि । ततो मुक्त एव वरं इति ध्यात्वा स मोचितस्तत्क्षणे ययौं, नृपाग्रे कथनाय भृत्या वारिताः । प्रभाते राज्ञा चोराप्राप्तिविलक्षेण पृष्टम्, चौरो न चटितः ? इति । सर्वैरुक्तम्, न चटितः । ततः सभायां विसर्जितायां कुमारभृत्यैश्चौरमोचनस्वरूपं राजदण्डभीतैः स्वयमेव ज्ञापितम् । राज्ञा कुपितेन कुमारो देशत्यागं कारितः । स भ्रमन् भद्दिलपुरं गतः, स कुमारस्तंत्र भिक्षार्थं प्रविष्टः । रुष्टो विधिः किं न करोति । यतः- यस्य पादयुगपर्युपासना-नो कदापि रमया विरम्यते । सोऽपि यत्परिदधाति कंबलं, तद्विधेरधिकतोऽधिकं बलम् ।। ५९ ।। ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येनं दशावतारगहने क्षिप्तो महासङ्कटे रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ६० ॥ तेन कुमारेण तत्र कर्मवशात् सक्तुभिक्षा लब्धा, स तान् सक्तूनादाय सरसीतले शीतलेन पयसा भोक्तुं सज्जयति स्म, चिन्तितम्, यदि कोऽपि याचकोऽभ्येति तदा तस्मै किंचिद्ददामि । तावता तद्भाग्यात् कोऽपि मासोपोषितः साधुस्तन्मार्गेऽचलत् । स मुदितस्तमाहूय प्राञ्जलिः प्रोचेअद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वाहनं भववार्थी । अद्य चिन्तितमणिः करमागाद्वीक्षितो यदि भवान्मुनिराजः ॥ ६१ ॥ इत्युक्त्वा सक्तुपिण्ड उत्पाटितः । साधुना करणवेला पृष्टा । तेनोक्ता। सावशेषं
चंद्रधवलभूप धर्मदत्तश्रेष्ठि
कथा.
॥२७॥