________________
श्रीजैन कथासंग्रहः
॥२८॥
देयमित्युक्त्वा साधुना पात्रं धृतम् । तेन भाववशात् सर्वेऽपि सक्तवो दत्ताः । तदा शासनदेवतया दिव्यदुन्दुभिध्वनिं कृत्वा प्रोक्तम्- धन्यस्त्वं धन्यस्त्वम् । चन्द्रधवलराज्यं तुभ्यं दत्तम् । साधुर्ययौ । कुमारः पुनर्भिक्षयासक्तुभिः प्राणाधारं चक्रे । देव्या तवापि स्वप्नो दत्तः । साम्प्रतं सैष वीरधवलस्तया समहोत्सवमत्रानीतः । ततश्चन्द्रधवलादिभिस्तेन महोत्सवे क्रियमाणे दीक्षा गृहीता । गुरुभिरुपदेशो दत्तः- धर्मों यस्य पिता क्षमा च जननी भ्राता मनः संयमो, मित्रं सत्यमिदं (सत्यं सूनुरयं ) दया च भगिनी नीरा (रो) गता ( शान्तिश्चिरं ) गेहिनी ॥ शय्या भूमितलं दिशोऽपि ( वसनं ) सदनं ज्ञानामृतं भोजनं, यस्यैतानि सदा कुटुम्बमनघं तस्येह कष्टं कथम् ? ( एते यस्य कुटुम्बिनो वद सखे ? कस्माद्भयं योगिनः ) ॥ ६२ ॥ मर्कट्यपि गुरून् धनवर्ती च पुनः पुनः पश्यन्ती जातिस्मरणं प्राप्ता प्रबोधिता च भावनया धर्ममाराध्य समये सौधर्मे देवी भूत्वा तेषामेव गुरूणां सान्निध्यकारिणी बभूव । गुरवो नवदीक्षितैः सह पृथ्वीमण्डले विजहुः । चन्द्रधवलोऽपि केवलज्ञानमासाद्याक्षयसौख्यं प्राप । धर्मदत्तो धनवती च समये सर्वार्थसिद्धिं प्राप्तौ । वीरधवलो राजा महोत्सवेन चन्द्रपुरं प्रविश्य प्रजाः प्रजा इव पालयन् पित्रापि तत्स्वरूपं ज्ञात्वा बहुमानितो राज्यश्रियमभुङ्क्त । समये श्रीदत्तं पुत्रं राज्ये स्थापयित्वा संयमश्रिया सिद्धिसौख्यं सिषेवे । भीमं वनं भवति तस्य पुरं प्रधानं, सर्वे जनाः सुजनतामुपयान्ति तस्य । कृष्णा च
चंद्रधवलभूप धर्मदत्तश्रेष्ठ
कथा
॥२८॥