________________
श्रीजैन कथासंग्रहः
112411
षोडशस्वर्णकोटशोऽभूत् । पुत्रजीवस्त्वं राजाऽक्षयस्वर्णनरभागभूः । इति श्रुत्वा राजाऽचिन्तयत् । धर्म एव सदा येषां दर्शनप्रतिभूरभूत् । क्वचित्त्यजति किं नाम, तेषां मन्दिरमिन्दिरा ? ॥ ५७ ॥ परं मोक्षं विनाऽक्षयसौख्यं न भवतीति गुरूनूचे प्रभोऽपारभवपारावारतारणाय चारित्रपोतं मे देहि । राज्यचिन्तां कृत्वा अन्वागच्छामि । गुरुभिरूचे मा प्रमादीः । ततो राजा गृहमागत्य भोजनानन्तरममात्यमाहूय बभाषे - राज्यं कस्य देयम् ? । तेनोक्तम्- जलधिजलमपेय पण्डिते निर्धनत्वम् । धनवति कृपणत्वं, भाग्यहीने सुरूपं । स्वजनजनवियोगो निर्विवेको विधाता शशिनि खलु 'कलङ्कः कण्टकाः पद्मनाले ॥ ५८ ॥ इति न्यायात्तव संवत्सरप्रवर्तकस्यापि पुत्रो नाभूत् यस्य तस्य तु निर्गुणस्य राज्यदानं न युक्तम् । ततस्त्वमेव सुचिरं राज्यं कुरु इत्युक्त्वोत्थितो मन्त्री । राजा सायंतनसभां विसृज्य संयमग्रहणचिन्तापरः सुष्वाप । पाश्चात्यरात्री तेन स्वप्नो दृष्टः । कापि दिव्यरूपा दिव्याभरणभूषिता स्त्री समेत्य भूपं प्राह तव राज्यं वीरधवलस्य दत्तम् । एषा वरमाला संयमश्रीसत्का तव कण्ठे क्षिप्यते इत्युक्त्वा सा गता । राजा प्रबुद्धोऽचिन्तयत्किमिदम् ? । प्रातर्मन्त्री पृष्टः । कोऽपि वीरधवलः स्वकीये राज्ये योग्योऽस्ति । तेनोक्तम् न ज्ञायते श्रीगुरव एव पृच्छ्यन्तेऽतो राजा गत्वा गुरून् पप्रच्छ । को वीरधवल इति ते प्रोचुस्त्वं संयमाय सज्जो भव यदा तव दीक्षा तदा तस्य पूर्वदिशः समागमो भविता ।
चंद्रधवलभूप धर्मदत्तश्रेष्ठि
कथा
॥२५॥