________________
श्रीजैन
कथासंग्रहः
चंद्रभवलभूप धर्मदत्तश्रेष्ठि
कथा
॥२४॥
महाँल्लाभोऽभूत् । ततः श्रेष्ठिना शकटेन यात्रानियमो गृहीतः । गृहस्थितस्यैव व्यवसायं कुवतोऽस्य लक्ष्मीरपि शनैः शनैः प्रचुराभूत् । कियति काले तस्य लक्ष्मीचन्द्रो नाम पुत्रोऽभूत् । स च यौवनं प्राप्तः। तस्य विवाहसामग्यां क्रियमाणायां मध्याह्नावसरे श्रेष्ठिनो देवपूजां कुर्वतः केऽपि साधवस्तद्गृहे विहर्तु प्राप्ताः । श्रेष्ठिना देवान्पूजयित्वा प्रोक्तं, कापि गृहे दात्री वर्तते । तदा तत्र स्थितेन लक्ष्मीचन्द्रेणोक्तम्ताताहमेवास्मि । तदा पृच्छ के साधवः, पृष्टे सति तैरुक्तम्- अद्य श्रीधर्मघोषसूरयः पञ्चशतपरिवारा: समेतास्तदीयावावां शिष्यौ । तदा श्रेष्ठिनोक्तम्-पहसंतगिलाणेसु, आगमगाहीसु तह च कय लोए। उत्तरवारणगंमि य, दाणं च बहुफलं होई ॥ ५६ ॥ अत: कारणात् वत्स लक्ष्मीचन्द्र ! साधुभ्यां षोडशमोदकान् देहि । साधवो बहवः सन्तीति लक्ष्मीचन्द्रेण चिन्तितम्-मद्विवाहे मोदकाः कृताः, अत एष ममैव लाभ इति हर्षितोऽसौ तैरगणितैरेव स्थाले भृत्वा समेतः । साधौ न न कुर्वति ते सर्वेऽपि तेन दत्ताः । श्रेष्ठिना पुनः पृष्टम्-वत्स ! षोडश मोदका दत्ता: ? । तेनोक्तं-हुं इति । श्रेष्ठिना तावन्मात्रमेव पुण्यमुपार्जितम् । पुत्रेणागणितदानात्पूर्णं पुण्यं चोपार्जितम् । ततः साधू गतौ विवाहो जातः । अथ तौ पिता पुत्रश्च पूर्णमायुर्भुक्त्वा शुभध्यानेन सौधर्मे सुरौ जातौ । ततश्च्युत्वा पितृजीव एष धर्मदत्तोऽभूत् । संविभागेऽतीचारभावात् अन्तरेऽन्तरे दुःखं प्राप्य पश्चात् षोडशमोदकपुण्यानुमोदनेन
॥२४॥