SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ । श्रीजैन कथासंग्रहः | चंद्रघवलभूप धर्मदत्तश्रेष्ठि कथा ॥२३॥ सुहृदो लक्ष्मीसागरं प्रोचुः-सज्जीभव। शकटं बलीवर्दादिसंयोगं कारयिष्यामः । किञ्चित्त्वमपि कुरु। इत्युक्ते सोऽपि सज्जोऽभूत् तावता सार्थोऽचलत्। तेऽपि भृतशकटाः पृष्ठतश्चलिताः। क्वापि सतृणप्रदेशे स्थिताः रात्रौ, लक्ष्मीसागरेण निःसम्बलेन (निश्चलेन) पाश्चात्यरात्री सामायिकं कृतम् । यावत्परमेष्ठिस्मरणं करोति तावता सार्थिकाः प्रबुद्धाश्चलत चलतेति वदन्तः शकटानि युञ्जन्ति स्म। लक्ष्मीसागरेण पूर्व मुत्कृतम् । तेष्वतिष्ठत्सु प्रोक्तम्-भो मम सामाविकमस्ति इति श्रुत्वा केचिदूचिरे। केयं सामायिकवेला, प्रयाणं दूरे, वृषभा अत्र क्षुधा म्रियन्ते, युक्त भो! इत्युक्त्वा शकटानियोजितानि । ये क्षणं दाक्षिण्येन स्थितास्तेप्यूचुर्वयमले चलितान् स्थापयिष्याम इति मिषेण तेऽपि चेलुः । श्रेष्ठिना चिन्तितम्-अहो सार्थिका शकटेन यात्रया पुण्यं न स्यादेव भव्यमिदानींतनं सामायिक मे जातम् । अथ यद्भवति तद्भवतु । एवं चिन्तयन् तत्पूर्ण कृत्वा श्रेष्ठी शकटं योजयित्वा यावदने गन्तुं प्रवृत्तस्तावदग्रे बुम्बारवोऽभूत् (जातः), श्रेष्ठिना चिन्तितम् । मम पुण्यं कृतं जातम् । अथ यद्भावि तद्भवतु इति चिन्तयन्नग्रे गतान्निजसार्थिकान् दिगम्बरानागच्छतो ददर्श । तेऽप्यूचुः । भोस्त्वं धन्यः, पुण्यं फलितम्। अस्माकमग्रे धाटकं मिलितम् । ईदृशाः कृत्वा मुक्ताः, ततः श्रेष्ठिना तेषां वस्त्रादिकं दत्तम् । तेषु रक्षापालेषु श्रेष्ठी स्वगृहमागात् । तावता गृहीतं वस्तु तत्रैव महाध्य (4) जातम् । तेनैव च वस्तुना विक्रीतेन ॥२३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy