________________
श्रीजैन कथासंग्रहः
चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा
॥२२॥
समेतोऽस्मि । सैषा तु त्वन्माता समुद्रजले कृताऽर्तध्याना मृत्वा मत्स्यीभूयात्र मर्कटी जाताऽस्मान् दृष्ट्वा पूर्वस्नेहादागत्य परितो भ्रमति नृत्यति च । इति श्रुत्वा धनवती मर्कटी वीक्ष्य वीक्ष्य हा मातस्तव किं जातमिति जल्पन्त्यश्रूणि मुमोच । गुरुभिरुक्तम्-ईदृगेव विषमो भवोदधिर्वर्त्तते । अत्र (अमुत्र) पुण्यमेव कृतमुद्धरति। यतः। मानुषं भवमवाप्य दक्षिणावर्तशङखवदमुंभवाम्बुधौ (वदिहातिदुर्लभम्) पूरयेत्सुकृतगाङ्गवारिणा क्रूर-(पाप)- वृत्तिसुरया न चोत्तमः (क्रूरवृत्तिमपसार्य पण्डितः)॥५५॥ अथ राज्ञोक्तम्-प्रभो ! पूर्वपृष्टस्य षोडशकोटीप्रश्नस्योत्तरं दीयताम् । गुरवः प्राहुः-श्रूयतां - कलिङ्गदेशे काञ्चनपुरे लक्ष्मीसागरो नाम श्रेष्ठी । तस्य लक्ष्मीवती प्रिया । परं लक्ष्मीरेवाभूत् (न), तथापि स सम्यक् सर्वज्ञधर्म करोति। उभयत्नेलं प्रतिक्रमणम् प्रतिवेलं सामायिकम् पर्वसु पोषधम् पारणे संविभागं च न मुञ्चति । परं संविभागेऽतीचारानानयति । कदाचित् शर्करादिकं स्वयं ग्रहीतुमना: साधुभ्यो दातुमनिच्छुः सचित्ते वस्तु निक्षिप्तं करोति १ । सचित्तेन वस्तुनः पिधानं करोति २। कालातिक्रमे वा साधूनाह्वातुं समेति ३ । इदं परकीयमस्ति यदि कल्पते तदा गृह्यताम् । साधवो वदन्ति-न कल्पते । स । वक्ति-मम किं (वदन्तु), ते वदन्ति तव मुत्कलम्। ततः स तद्भुङ्क्ते ४ । कदाचिन्मत्सरं वा धत्ते ५। एवं . कुर्वतस्तस्य चेष्टापरस्य दिना यान्ति । अन्यदा कोऽपि सार्थो वसन्तपुरं प्रति चलितुं लग्नः । केऽपि
॥२२॥