________________
श्रीजैन कथासंग्रहः
धर्मदत्तश्रेष्ठि कथा
॥२१॥
तदाधारात्तरन्नवभिर्दिनैस्तटं प्राप्तः पुरमेकं तव पिताऽहं यावता ददर्श तावदेको विप्रो हे धनसागर ! आगच्छ आगच्छ इति जल्प मां सविस्मयं गृहीत्वा निजगृहमगात् । तेन मम भक्तिर्महती कृता। त्वपित्रा द्विजः पृष्टः (मया प्रोक्तं द्विज !) -किमर्थ भक्तिः क्रियतेऽहं तु त्वां नोपलक्षयामि। तेनोक्तम्शृणु । इदं शहपुरं नगरम् । अहं जिनशर्मनामा जैनो द्विजो ज्ञेयः, अपुत्रेण मया कुलदेवताराध्य पुत्रं याचिता। तयोक्तम्-तव निकाचितं कर्म पुत्रो न स्यात् । मयोक्तम्-अपुत्रस्य गतिनास्ति। स्वर्गों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाद्धर्म समाचरेत् ॥ ५४ ॥ इत्यादि कथक लोकवन्मम मनसि विभ्रमो नास्ति । परं मे विद्या उच्छित्तिं यास्यन्त्येष एव विषादः । तयो(देव्यो)क्तम्-कमलपुरवासी भग्नप्रवहणो धनसागरो नवदिनैरत्र समुद्रतटे समेष्यति।सस्वगृहमानेयः, सर्वा विद्या देयाः। एकवारश्रुतं ते सर्व तस्य समेति । एवं त्वमनृणो भविष्यसि । तस्य च स्वपुत्री देया। इत्युक्त्वा देवी गता, ततस्तव भक्तिः क्रियते । इत्युक्ते तेन मया त्वत्पित्रा सर्वविद्या गृहीताः । तत्पुत्री च पाणौगृहीता। कियति काले विप्रः कृताराधनः समाधिना परलोकमाप । त्वत्पितुस्तत्र द्विजपुत्र्यां (एतत्पुत्र्यामेव) पुत्रोऽभूत्तस्य धनद इति नाम कृतम् । यावत्स अष्टवार्षिको जातः तावता सर्वविद्या ग्रहीतुं लग्नः । एवं कियति काले गच्छति तत्र श्री अजितसिंहसूरयः समेतास्तत्पावें द्विजपुत्रीयुग् व्रतमादाय गुरुदत्तसूरिपदः सोऽहं
॥२१॥