________________
श्रीजैन कथासंग्रहः
चंद्रधवलभूप धर्मदत्तश्रेष्ठ कथा
॥२०॥
सभां प्राप्तः । राज्ञा बहुमानं दत्तम् त्वद्दत्तेनैव स्वर्णनरेण सर्वत्र यशो मेऽस्ति । ततः सर्वव्यवहर्तृमध्ये श्रेष्ठिपदं दत्तं धर्मदत्तस्य, सच स्वगृहं ययौ। नित्यमागच्छतोऽस्य पार्वे राज्ञा पृष्टं प्रीत्या। तव कियद्धनम् ? । तेनोक्तम्-स्वामिन् ! महत्कौतुकं वर्तते । श्रूयताम, तस्मिन्नवसरे स्वर्णनरात् स्वभावेनैव षोडश स्वर्णकोट्यो गृहीताः । साम्प्रतं च जलस्थलव्यवसायं कुर्वतो मे लेख्यककरणे ता एव षोडश कोटयो दृश्यन्ते । तेन विशेषवन्तं व्ययमपि कर्तुं न शक्नोमि। कारणं ज्ञानिनो विदन्ति । इति वार्ता कुर्वतोरेव तयोः प्रतीहारयुक्तेन वनपालेनोक्तम्-श्रीधनसागरसूरयो ज्ञानिनः समेताः । राजा धर्मदत्तश्च सपरिच्छदौ गुरून्नन्तुं वनं जग्मतुः । पञ्चाभिर्गमैर्गुरवो वन्दिताः । तैर्धर्मोपदेशो दत्तः । राज्ञा पृष्टम्, - प्रभो ! धर्मदत्तेनोद्यमः कृतः स्वर्णनरस्तु मद्गृहे। अस्य च ता एव षोडश कोट्यः । को हेतुः ? । यावद् गुरवो वदन्ति तावदेका मर्कटी वृक्षादुत्तीर्य गुरून् परितः पुनः पुनः बभ्राम ननर्त च । राज्ञोक्तम्-षोडशकोटीवार्ता पश्चात्कथ्यताम् । मर्कटी कुतो नृत्यति ? । गुरुणोक्तम्-विषमो मोहो विषमा च भवितव्यता । एष धर्मदत्तो जामाता। एषा चास्मत्पुत्रीधनवतीमाताधनश्रीनामा, केचिदिति श्रुत्वा धाविताः । पुरान्तर्गत्वा धनवत्यै प्रोचुस्तव पिता गुरुश्च प्राप्तोऽस्ति । साऽपि तत्क्षणं तत्रागता, अश्रूणि क्षरन्ती गुरून् ववन्दे प्रोचे च किमिदं स्वरूपम् ? । गुरवः प्राहुर्यदा प्रवहणं भग्नं तदा हस्ते फलकं लग्नम् ।
રવા