________________
श्रीजैन कथासंग्रहः
धर्मदत्तश्रेष्ठि
कथा
॥१९॥
तेनोक्तमथ किं ? मम वाक्यं व्यर्थ न कार्यमित्युक्त्वा धर्मदत्तोऽवक्-स्वर्णनरं त्वमेव गृहाण । कुमारेणोक्तम्-कुतो हेतोः ? | तेनोक्तम्-वणिगहं, नायं मे घटतेऽत्याग्रहं कुर्वति सति कुमारेणोक्तम् । तर्हि(याचस्व) यावद्रोचते तावन्मानं स्वर्ण स्वर्णनराद् गृहाण । तेन छित्त्वा गृहीतम् । कुमारोऽपि गलशीर्षमात्रं स्वर्णनरमुत्पाटय सङ्गोप्य गृहं ययौ । राजा मिलितः, पृष्टं च तस्य-कार्यसिद्धिर्जाता ? जातेत्युक्त्वा स्वर्णनरवार्तामपि न कथयामास । राज्ञाऽपि न पृष्टम् । राज्ञः किं सैव चिन्तास्ति । अथ धर्मदत्तेन स्वर्णनरात् षोडशकोटिमानं स्वर्ण प्राप्य वनस्थेनैव महान्तं सार्थ कृत्वा स्वगृहे वर्धापकः(पनकं)प्रेषितः (तं)ततः स्वजनैः सम्मुखं समेतैर्महोत्सवेन गृहं प्राप्तः । सर्वोऽप्याश्रितलोकस्तं सिषेविरे । यतः-संपदि सपदि घटन्ते कुतोऽपि संपत्तिसहभुवो लोकाः । वर्षाभून्निवहा इव, काले कोलाहलं कृत्वा ॥५२॥ वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः। सर्वे ते धनवृद्धस्य, द्वारे तिष्ठन्ति किाराः॥५३॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः। स एव वक्ता सच दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥५४॥ अथ यशोधवलेन राज्ञा चन्द्रधवलस्य राज्यं दत्त्वा दीक्षामादाय शिवसौख्यं प्रपेदे। चन्द्रधवलोऽपि राज्यं प्राप्य स्वर्णपुरुषं प्रकटयित्वा विश्वमदरिद्रीकृत्य चन्द्रसंवत्सरं प्रवर्त्तयामास, तस्यान्यदा धर्मदत्तः स्मृतिमागात् प्रभाते मन्त्रिणं प्रेष्य सबहुमानमाहूतः। स
॥१९॥