SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ।।१८।। यक्षा दर्भस्रस्तरे निविष्टः, तृतीयोपवासे रात्रौ सिंहसर्पादिभिः क्षोभणपूर्वकं कुमारे निश्चले सति यक्षः प्रत्यक्षोऽभूत् । किं याचसे ? । तेनोक्तम्- धर्मदत्तप्रियामर्पय। यक्षेणोक्तम् । सा मम प्रियावश्यं मया दातुं न शक्यते एषा कथं त्वदीया ? । शृणु-एकदाहं मत्प्रिया च रात्रौ क्वापि वने प्राप्तौ । तत्र सा दिव्यरूपा सुप्ता दृष्टा । यक्षिण्याऽहमुक्तः, मानवी क्वापीदृशी रूपेण न दृश्यतेऽतोऽपहृत्य मेऽर्पय । ततः सा तस्यै समर्पिता, अत्रार्थे नाहं वेद्यीत्युक्त्वा क्षणेन यक्षोऽदृश्योऽभूत् । कुमारेण चिन्तितं, धिग् देवादयोऽपि स्त्रीश्या एव । अथ यक्षिणीमुद्दिश्य तपः करिष्ये । यतः ॥ यद्दूरं बहुराराध्यं, यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ ५० ॥ इति विचिन्त्य तामुद्दिश्य षडुपवासाः कृताः । ततः सा कम्पिताssसनाssकुला प्रत्यक्षीभूय बभाषे वत्स ! किमेवं साहसं कुरुषे ? कुमारेणोक्तम्- सैवार्प्यताम् । ततो यक्षिण्याऽनिच्छन्त्या बलादपि साऽर्पिता । कुमारेण धर्मदत्त आहूय प्रोक्तः, एषा ते प्रिया भवति । सोऽपि तां दिव्याभरणदुकूलशोभितां स्वप्रियां वीक्ष्य हृष्टः । पुनः कुमारेणोक्तम्- चल यथा स्वर्णनरोऽपि दीयते इत्युक्त्वा तत्र स्मशाने समेत्योक्तम् अत्र त्वं खन । तेन खातम् । निर्गतो देदीप्यमानः स्वर्णपुरुष: । धर्मदत्तेनाचिन्ति, उवयारह उवयारडओ, सहुए कोइ करेइ । विण उवयारह जो करइ, विरलो जणणी. जणे ॥ ५१ ॥ एवंविध उपकर्ताऽयमेव कुमारो नान्य इति क्षणं विमृश्योक्तम्- हे कुमार ! पुनः । किञ्चिद्याचे, चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ||१८||
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy