________________
श्रीजैन कथासंग्रहः
चंद्रयवलभूप धर्मदत्तत्रेष्ठि
कथा
॥१७॥
। हा मामप्याश्रित्य कार्यमस्य न सिद्धयति। अथ हस्तबीटकमुत्पाट्य बभाषे-सोऽपि सभायां कश्चिदस्ति योऽस्य स्वर्णनरं वालयति । ततश्चन्द्रधवलकुमारेण बीटकं गृहीतम् । सर्वः कोऽपि चमत्कृतः । कथं वालयिष्यति ? । अथ तौ द्वावपि सभातो निर्गतौ । कुमारेण विलम्बकरणार्थं स उक्त:-भो! न ज्ञायते देवेन दानवेन खेचरेण वा तव स्वर्णनरो लातः । अतः रात्रौ तत्र स्थीयते यथा स्वरूपं ज्ञायते । अथ तो तत्रैव श्मशाने रात्री निविष्टौ। धर्मदत्ते निद्रायिते कुमारेण दिव्यवाधरवः श्रुतः। ततः कौतुकात्तत्र धर्मदत्तं निद्रायन्तमेव मुक्त्वाऽभिज्ञानानि कुर्वन्नग्रे स्वरानुसारेण गच्छन् वने क्वापि यक्षभवमे दत्तकपाटे छिद्रेण मध्येऽष्टोत्तरशतदेवकन्या नृत्यन्तीर्ददर्श। तन्मध्ये चैकां रूपेण तदधिकामपि मनुष्यलक्षणां वीक्ष्य विस्मितः क्षणं वीक्ष्य व्यावृत्तोऽभिज्ञानरेव धर्मदत्तसमीपं प्राप्तः । सोऽपि प्रबुद्धः, कुमारेणोक्तम्-भोः किमपि श्रुतम् ? । तेनोक्तम्-शृगाला: शब्दायिताः, नहि अन्यत्, तदा भैरवी कलकलायते । ततः स्मित्वा कुमारेण नाटकस्वरूपे कथिते सोऽवादीत् । सा ममैव प्रिया घटते । द्रुतं गम्यतेऽहं तां पश्यामि । ततो यावत्तौ यक्षद्वारं गतौ तावन्नाट्यं विसर्जितम् । धर्मदत्तो हस्तौ घर्षयन् पुनः पुनः पप्रच्छ। सा कियन्माना किंकुर्वाणा (किंवर्णा) किं वयोऽनुमाना दृष्टा ? कुमारेण स्वरूपे प्रोक्ते सोऽवक् । स्वर्णपुरुषेणालम्, तां मम प्रियामेव वालय । अथ प्रभाते देवार्चकेन द्वायुद्घाटितायां धर्मदत्तस्य कथयित्वा कुमारो
॥१७॥