________________
श्रीजैन कथासंग्रहः
॥१६॥
'सर्वोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ ७ ॥ यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा ॥ तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन ॥ ८ ॥
इत्यादि परमेष्ठिमन्त्रेण स्वाङ्गरक्षां चक्रे, खड्गं च सज्जयामास । यावदष्टोत्तरशतविधि: पूर्णो भवति तावता वक्रदृशा धर्मदत्तेन योगी खड्गं सज्जयन् दृष्टः । ततस्तेनैव झटिति पश्चान्मुखीभूय योगी हतः, कुण्डान्तः पतितः, स्वर्णनरोऽभूत् (स्वर्णनरमद्राक्षीत् ) । तेन चिन्तितम् - शीतोष्णपानीयमानीय सिञ्चामीति नदीं गतः । यावदायातस्तावत् स्वर्णनरं नाद्राक्षीत्, मूर्च्छितः पतितः ॥ पवनैः सचेतनोऽचिन्तयत्-पापमपि कृतं फलमपि गतं । चाण्डालपाटके प्रविष्टो भिक्षाऽपि न लब्धा हा दैव ! त्वयाहमेवोपलक्षितोऽस्मीति विलपन् दुःखेनातिदुर्बलस्य बलं राजा इति त्वत्पार्श्वमागतः सोऽहं धर्मदत्तोऽस्मि इति श्रुत्वा राजाऽवक् भो भद्र ! स्वर्णनरो न केनाऽपि व्यावर्तते परं लक्षकोटिमानं स्वर्ण याचस्व, यथा कोशात्तद् दाप्यते । तेनोक्तम्-यदि स्वर्णनरो मयावाप्यते तदैव मे निवृत्तिरन्यथा स्वर्णेन पूर्ण । यतः - 'बप्पीहउ तं जलु पीयइ, जं तुट्ठउ घणु देइ (जं जलगज्जि न देइ) माणविवज्जियधर पडिय, मरइ न चंचु भरेइ ।। ४९ ।। अतः स्वर्णग्रहणे (णं) न वाच्यम् । इति तस्मिन्निश्चले राजाऽचिन्तयत्
१ चातक
चंद्रधवलभूप धर्मदत्तश्रेष्ठ
कथा
॥१६॥