SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१६॥ 'सर्वोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ ७ ॥ यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा ॥ तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन ॥ ८ ॥ इत्यादि परमेष्ठिमन्त्रेण स्वाङ्गरक्षां चक्रे, खड्गं च सज्जयामास । यावदष्टोत्तरशतविधि: पूर्णो भवति तावता वक्रदृशा धर्मदत्तेन योगी खड्गं सज्जयन् दृष्टः । ततस्तेनैव झटिति पश्चान्मुखीभूय योगी हतः, कुण्डान्तः पतितः, स्वर्णनरोऽभूत् (स्वर्णनरमद्राक्षीत् ) । तेन चिन्तितम् - शीतोष्णपानीयमानीय सिञ्चामीति नदीं गतः । यावदायातस्तावत् स्वर्णनरं नाद्राक्षीत्, मूर्च्छितः पतितः ॥ पवनैः सचेतनोऽचिन्तयत्-पापमपि कृतं फलमपि गतं । चाण्डालपाटके प्रविष्टो भिक्षाऽपि न लब्धा हा दैव ! त्वयाहमेवोपलक्षितोऽस्मीति विलपन् दुःखेनातिदुर्बलस्य बलं राजा इति त्वत्पार्श्वमागतः सोऽहं धर्मदत्तोऽस्मि इति श्रुत्वा राजाऽवक् भो भद्र ! स्वर्णनरो न केनाऽपि व्यावर्तते परं लक्षकोटिमानं स्वर्ण याचस्व, यथा कोशात्तद् दाप्यते । तेनोक्तम्-यदि स्वर्णनरो मयावाप्यते तदैव मे निवृत्तिरन्यथा स्वर्णेन पूर्ण । यतः - 'बप्पीहउ तं जलु पीयइ, जं तुट्ठउ घणु देइ (जं जलगज्जि न देइ) माणविवज्जियधर पडिय, मरइ न चंचु भरेइ ।। ४९ ।। अतः स्वर्णग्रहणे (णं) न वाच्यम् । इति तस्मिन्निश्चले राजाऽचिन्तयत् १ चातक चंद्रधवलभूप धर्मदत्तश्रेष्ठ कथा ॥१६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy