________________
श्रीजैन । कथासंग्रहः
धर्मदत्तश्रेष्ठि
कथा..
॥१५॥
शीतमुष्णं च पानीयमानीतं वीक्ष्यते, ततो द्वावपि चलितौ । शीतोष्णकुण्डयो: पानीयमानीतम् । रक्तचन्दनपुत्तलकः स्वयं योगिना घटितः । सर्वेऽप्याहुतिसंयोगा मेलिताः। कृष्णचतुर्दशीरात्रौ तौ द्वावपि स्मशानं गतौ । तत्र योगिनाऽग्निकुण्डं ज्वालितम् । तत्र लोहरक्षामिषेण खड्गं पार्वे कृत्वा निविष्टः, धर्मदत्तस्य चोक्तम्-तवापि लोहरक्षास्ति। तेनोक्तमस्ति किञ्चित्, ततस्तेनापि राक्षससत्कखड्गः समीपे गुप्तो धृतः, स च धर्मदत्त: योगिनात्मनोऽग्रे पराङ्मुखो निवेशितः, पश्चान्न वीक्ष्यमित्युक्तं च, द्वयोरन्तरे रक्तचन्दनपुत्तलकः स्थापितः । परं योगी मन्त्रेण सर्षपानभिमन्य धर्मदत्तपृष्ठिमेवाच्छोटयति स्म । ततो धर्मदत्तेन चिन्तितम् । एष मम पृष्टिमेवाछोटयति। ततो भव्य इव न दृश्यते विश्वासश्च कतुन युक्त इति विचिन्त्य ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ओं नमो सिद्धाणं, मुखे मुखपटं वरम् ॥२॥ओं नमो आयरियाणं, अगरक्षातिशायिनी। ओं नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥३॥ओं नमो लोए सव्यसाहूणं, मोचके पादयोः शुभे । एसो पंच नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणंच सव्वेसिं, खादिराङ्गारखातिका॥५॥स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं ॥ वप्रोपरि वज्रमयं, विधानं देहरक्षणे ॥६॥ महाप्रभावारक्षेयं,
॥१५॥