________________
।
श्रीजैन कथासंग्रहः
चंद्रधवलभूप धर्मदत्तश्रेष्टिं
कथा
॥१३॥
आगच्छ आगच्छ, न कोऽप्यायाति । उत्थाय परितो वीक्षितम् । तां च न पश्यति पदमपि न दृश्यते। ततो विविधचिन्ता जाता। वने भ्रान्त्वा भ्रान्त्वा श्रान्तः । परं सा क्वापि न लब्धा। हे हंस ! हे मयूर ! हे चम्पक ! हे सहकार ! मत्प्रियाशुद्धिं कथयत इति जल्पन् पुनः स्वापस्थानं समेतः । प्राह ए संसार असारडो, आसा बंधण जाइ। अनेरे किरि सूईयइ, अन्नेरडे विहाइ॥ ४० ॥ यन्मनोरथशतैरगोचरं न स्पृशन्ति कवयो गिरापि यत् । स्वप्नवृत्तिरपि यत्र दुर्लभा हेलयैव विदधाति तद्विधिः॥४१॥ इत्यादि विलप्याऽथ स्वगृहमेव यास्यामीति विचिन्त्य चंद्रपुरं प्राप्तः, प्रतोली प्रवेष्टुं लग्नो यावत्तावच्चिन्तितम् - हा मूढ धर्मदत्त ! क्व यासि ? अग्रेऽपि कलत्रस्य पञ्चाशत्सहस्राणि विनाशितानि, अथ निजमुखं कथं दर्श्यते ? सघनाः स्वजना अपि हसिष्यन्ति । ततो वनमेव सेवितं वरम् ॥ यतःकपिकुलनखमुखविदलितत-रुतलपतितफलभोजनं प्रवरम् । न पुनर्धनमदगर्वितभूभङ्गविकारिणी दृष्टिः ॥ ४२ ॥ इति निश्चित्य पश्चाद्वलितो वनान्तर्गतः । फलजलाहारस्तत्र तिष्ठन्नन्यंदा योगिना दृष्टः, प्रोक्तश्च-बाबू ! सचिन्त इव दृश्यसे ? । तेनोक्तम्-निर्धनानां कुतो निश्चिन्तत्वम् ? तेनोक्तम्-अहं दारिद्रयकन्दकुद्दालबिरुदं वहे। अहमेवं चिन्तयामि-मयणदेव ईसरि दहिउ, लंक दहिय हणुएणा पंडगवणु पंडय दहिउँ, पुण दालिद्द न केण ॥४३॥ तदहं दारिद्रयं दहामि । हृष्टो धर्मदत्तोऽवक्-कथय कथं ?
॥१३॥