________________
| चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा
पुरो भूत्वा हक्कितः। यावत्स कोपाकुल उत्तिष्ठति तावता तेन हतः। धनवती तस्य भुजौ पुष्पैरपूजयत्। तौ निःशको तत्र कदलीफलद्राक्षादिकृताऽऽहारौ युग्मिनाविव सुखेन तिष्ठतः । अन्येद्युस्तयोक्तं-प्राणेश ! धर्म विना दिना वृथा यान्ति । बालो थको जीव धर्मकरि। सूवे निचिंतो कांइ। दीहा जति चलंति नहु । जिम गिरि निझरणाइ॥ ३५॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः॥ ते मर्त्यलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति ॥ ३६॥ वासरविग्रहराय, ते धन्ना जे धम्मसु सेसा संभरि राय जाणेघे हारिया ॥ ३७ ।। अतो वासभूमौ गम्यते तदा भव्यं ततस्तौ ततः स्थानाच्चलिती वासं प्राप्तौ चन्द्रपुरदेशमध्यं गतौ । अन्यदा सन्ध्यायां निर्विण्णी वनमध्ये क्वापि विश्रान्तौ । धर्मदत्तः पाश्चात्यरात्रिसमये सूर्योदयात्पूर्व प्रबुद्धो लीलया प्रियामाश्रित्य बभाषे-प्रोज्जृम्भते परिमल: कमलावलीनां, शब्दायते क्षितिरुहोपरि ताम्रचूडः । शृङ्गं पवित्रयति मेरुगिरेर्विवस्वा-नुत्थीयतां सुनयने ! रजनी जगाम ॥ ३८ ॥ सा हुंकारमपि न दत्ते पुनः क्षणं प्रतीक्ष्य स बभाषे-एते व्रजन्ति हरिणास्तृणभक्षणाय, चूर्ण विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तवापि सुवहः किल शीतल: स्यादुत्थीयतां सुनयने ! रजनी जगाम ॥ ३९॥ सा श्वसत्यपि न ज्ञायते-ततो धर्मदत्तेन सम्मुखमीक्षिता तावन्न पश्यति स्म । किमेतत् ? । सा क्व गता पूर्वमुत्थिता? क्षणं प्रतीक्ष्य शब्दं कुरुते स्म । प्रिये !
॥१२॥