________________
श्रीजैन कथासंग्रहः
॥११॥
चैत्रसुदिपञ्चमीदिनेऽर्धाधिकप्रहरसमये । श्रेष्ठिनोक्तं स्तोका दिनाश्चन्द्रपुरे गमनागमनं कर्तुं न शक्यतेऽतः पुत्रीमादाय वयं तत्र यास्याम इत्युक्त्वा पोतं सज्जीकृत्य सकलपुत्रपुत्रीयुक्तोऽम्भोधौ चचाल । दैवप्रेरितप्रतिकूलपवनैः प्रवहणे भग्ने धनवती फलकाधारेण तरन्ती सप्तदिनैस्तीरं प्राप्ता वनमध्यसरसि पयः पीत्वा सुप्ता राक्षसेनोत्पाटिताऽत्र मुक्ता । भयात्कम्पमाना राक्षसेनोक्ता मा भैषीर्मम क्षुधाकुलस्यापि त्वां दृष्ट्वा विलोक्य कृपा जाता यावदन्यद्भक्ष्यं लप्स्ये तावत्त्वां न भक्षयिष्यामि इत्युक्त्वा स गतस्तेन त्वं चानीतः । हे सत्पुरुष ! त्वां दृष्ट्वाऽहं चिन्तयामि । हे विधे! कथमहमभाग्यमयी सृष्टा । पूर्व पित्रोर्वियोगः साम्प्रतं त्वस्य पुरुषरत्नस्य विनाशवीक्षणदुःखाय स्थापिताऽस्मि । हे सत्पुरुष ! त्वं क इति तयोक्ते धर्मदतः स्मित्वाऽवादीत्, मम स्थानादिकं त्वयैव प्रोक्तं तावत्तस्या वामभुजः स्फुरितः प्रीतिं च प्राप्ता स एव धर्मदत्त इति निश्चित्य लज्जां च लेभे, धर्मदत्तेनोक्तं-यद्यावयोर्देवेन योगो मेलितस्तदा विमृश्य कथय लग्नदिनं कदा प्रोक्तं ? । तया विचिन्त्योक्तं- अद्यैव दिनं एषैव वेला । ततस्तेन सा परिणीता । तया चोक्तम् प्राणेश ! राक्षसभीस्तत्रैवास्ति । तेनोक्तम्- क्वास्तिः, ? तयोक्तंतत्रैव तटाके स्नात्वा खडगं पार्श्वे विमुच्य देवताच कुर्वन्नस्ति । तेनोक्तं रक्षो हनिष्यामि । तयोक्तंतदैषैव वेला । स उत्थाय तयाग्रे चलितया चलितः शनैः शनैः पृष्ठविभागे गत्वा खडगंमादाय कृष्ट्वा
चंद्रधवलभूप धर्मदत्तश्रेष्ठि
कथा,
॥११॥