SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप । धर्मदत्तष्ठि कथा ॥१०॥ कुर्वेऽथ यदावि तद्भवतु इति चिन्तयन् क्वापि स्थाने स्वं मुक्तं ज्ञात्वा नेत्रे उन्मील्य यावद्विलोकयति । तावन्न पश्यति राक्षसं किन्तु वृक्षच्छायाश्रितां दिव्यरूपां कन्यामद्राक्षीत् । स चातीव विस्मित: किं राक्षस एव कन्यारूपो जातोऽन्या वा काचित् किं नागकन्या खेचरी वा अमरी वेति चिन्तयन् साहसं धृत्वा प्रोचे-हे बाले ! का त्वं ? तयोक्तम्-त्वं कः ? तेनोक्तम्-मानवोऽहम् । तयाप्युक्तं मानव्यहं, कुतोऽत्र विषमवने तिष्ठस्येकाकिनी? साऽवादीत्-दैवगतिर्विषमा। तेनोक्तं-कथं ? साऽवोचत्-श्रूयतां सिंहलद्वीपे कमलपुरं नाम नगरम् । तत्र सत्यार्थनामा धनसागर-श्रेष्ठी। तस्य धनश्री: प्रिया। तत्कुक्षिजा धनवती नाम पुत्री, पितुः प्राणेभ्योऽपि वल्लभाऽभूत्, सा योवनं यान्ती पित्रा दृष्टा चिन्ति-तञ्च । एषा पुत्री तस्यैव वरस्य देया यस्य जन्मपत्रिका मत्पुत्रीजन्मपत्रिकया सह भाग्यवत्तया मिलिष्यति । इति चिन्तयन्ननेकेषां श्रेष्ठिपुत्राणां जन्मपत्रिका विलोकयामास । परं न काऽपि मिलति । अन्यदा चन्द्रपुरात् प्राप्तः कोऽपि ज्योतिषिको मयि समीपस्थायां पित्रा भाषितः एवंविधा जन्मपत्रिका कस्यापि वर्तते, तेनोक्तं-चंद्रपुरे नगरे श्रीपतिश्रेष्ठिनः पुत्रस्य धर्मदत्तस्य जन्मपत्रिका मया कृताऽस्ति सा ईदृशी वर्तते, लिखित्वा दर्शिता, एतया एषा मिलति, धर्मदत्तः षोडशस्वर्णकोटिभाग् भविष्यति। श्रेष्ठिनोक्तं-तेनैवैनां पुत्रीं विवाहयिष्यामि । लग्नानि पश्य, तेनोक्तमस्मिन् सर्वशुद्धमेकमेव लग्नमस्ति । ॥१०॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy