________________
श्रीजैन
कथासंग्रहः
चंद्रधवलभूप धर्मदत्तश्रेष्टि कथा
॥९॥
विन्ध्यस्य चानेकशो, जायन्तेमदपालिपालितयश:- श्री(शो)लंभिनः कुम्भिनः ॥ ३०॥धर्मदत्तोऽभाषिष्ट प्रिये ! कालो सहाव नियई, पुव्वकय पुरिसकारणे पंच । एगन्ते मिच्छत्तं, समासओ हुन्ति सम्मत्तं ॥३॥ लोकेऽपि-उद्यमः साहसं धैर्य, बलं बुद्धिपराक्रमौ। षडेते यस्य विद्यन्ते, तस्मादेवोऽपि शकते ॥३२॥ अतो रत्नाकरं सेविष्ये, एवं स प्रियां प्रत्युत्तरय्य स्वजनेभ्यः स्वकीयगृहादिशिक्षा दत्त्वा सज्जीकृत्तप्रवहणः समुद्रमचटत् । कर्कोटकद्वीपं प्रति प्रवहणस्य गच्छतोऽन्यदा प्रतिकूलवाता वातुं लग्नाः । तस्मिन्नाकुले पोतो भग्नः फलकं गृहीत्वाम्भोधिं तरन् प्रियाशिक्षा स्मरन्नीरधितीरं प्राप्तः । भीषणं समुद्रं पश्यन् बभाषे-स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः, कल्याणिनी भवतु मौक्तिकशुक्तिमाला। प्राप्तं फलं सकलमप्यमुतः पयोधे-यंहारुणैर्जलचरैर्न विदारिताः स्मः ॥ ३३ ॥ इति कथयन् वेलावनेषु परिभ्रमन् एकं जलपूर्ण तटाकं विलोक्य मिष्टं नीरं पपौ। तीरतरुच्छायामाश्रित्य विविधचिन्तां कुर्वन् निद्राकुलितनेत्रः सुष्वाप। सकेनाऽप्युत्पाटितं स्वं ज्ञात्वा प्रबुद्धः। प्रौढदेहं भयंकर राक्षसं दृष्ट्वा भयभीतो नेत्रे निमील्य चिन्तयामास-छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलादागुरां, पर्यन्ताग्निशिखाकलापवसनान्निर्गत्य दूरं वनात् । व्याधानां शरमोचनादतिजवेनोत्प्लुत्य धावन्मृगः, कूपान्त: पतित: करोतु विधुरे किंवा विधौ पौरुषम् ॥३४॥ यद्यहं समुद्रान्निर्गतस्तदा राक्षसेन गृहीतस्तत्किं
॥९॥