________________
श्रीजैन कथासंग्रहः
चंद्रधवलभूप धर्मदत्तश्रेष्ठि
कथा
॥॥
कस्यचित्समीपे श्रुत्वा गृहमध्यं गतः तर्कुरवं श्रुत्वा तत्र गच्छन् कर्तयन्तीं निजवधूं ददर्श । साऽपि तं। दृष्ट्वाऽनुमानेन निजपतिमुपलक्ष्य प्रतिपत्तिं चक्रे । सोऽपि विष्टरे निविष्टः सर्व स्वरूपं पप्रच्छ । साऽप्यची(च)कथत् । अथ स दुःखपूरितोऽचिन्तयत्-सौरभ्याय भवन्त्येके, चन्दना इव नन्दनाः । मूलोच्छित्त्यै कुलस्यान्ये व्यालका इव बालकाः ॥ २८॥ तं प्रिया प्रोचेऽथ खेदेन किं स्यात् । अद्यापि यदि हे प्राणेश त्वं सावधानस्तदा सर्वमपि भव्यं भावि । तेनोक्तम्, द्रव्यं विना भव्यता कुतः-जाई विज्जा रूवं, तिन्नि वि निवडंतु कन्दरे विवरे। अत्थुच्चिय परिवुद्दो, जेण गुणा पायडा हुंति ॥ २९ ॥ सा प्रोचे स्नानभोजनादि क्रियतां पश्चादुपायं वक्ष्ये । तेन चिन्तितम्-किमपि निधानादिकं कथयिष्यति । तेन स्नात्वा बुभुजे । क्षणं विश्वस्य सा प्रोक्ता-कथ्यतां क उपायः ? । तया निजलक्षद्रव्यसत्काभरणमध्यात् पञ्चाशत्सहस्रसत्कमाभरणमर्पितम्। ततोऽसौ तेन द्रव्येण व्यवसायं कर्तु प्रवृत्तः । परं कोटिध्वजपुत्रस्तेन स्वल्पव्यवसायेन लज्जमानः प्रियां प्रति प्राह-प्रियेऽत्राहं त्रपे । समुद्र गमिष्यामि। यतः-इक्षुक्षेत्रं समुद्रश्च, योनिपोषणमेव च। प्रसादो भूभृतां चैव, क्षणाद् ध्नन्ति दरिद्रताम् ॥ २९॥ सा प्रोचे-प्राणेश! साम्प्रतं समुद्रसेवनं न साम्प्रतम् । यतः- पुण्यादेव समीहितार्थघटना नो पौरुषात् प्राणिनाम्, यद्धानोर्धमतोऽपि नाम्बरपथे(तले)स्यादष्टमः सैन्धवः । स्वस्थानात्पदमात्रमप्यचलतो
॥८॥
द प्राणिनाम्, यद्धानो साम्प्रतं समुद्रसेवनं न सायप्रसादो भूभृतां चैव,