________________
श्रीजैन कथासंग्रहः
बंद्रपवलभूप धर्मदत्तत्रेष्ठि कथा.
॥७॥
सूराजे पंडिया, जे गरूया गंभीर। नारी तेह नचावीया, जे जे बावनबीर ।। २३॥ श्रेष्ठिना द्यूतकारानाहूय व्यवहारनपुण्याय धर्मदत्तस्तेभ्यो दत्तः, तेऽपि हृष्टास्तमादाय द्यूतरमणवनभ्रमणजलकेलीमुख्यान् क्रीडारसान् कारयन्तः कामपताकायाः पणाङ्गनाया गृहं निन्युः। सा तैः प्रोचे-जङ्गमो निधिरयं वर्तते। सापि तमावर्जयामास । श्रेष्ठिनी तत्स्वरूपं ज्ञात्वा हृष्टा द्रव्यं प्रेषयामास । कियत्सु दिनेषु गतेषु श्रेष्ठी श्रेष्ठिनी पुत्रमाकारयामासतुः । स तु नैति । कथमपि तौ दुःखितौ जाती । श्रेष्ठिना शासनदेवतावचः स्मृतम्। तच्च नान्यथा तौ आकार्य आकार्य निर्विण्णौ खिन्नौ दुःखेनैव विपन्नौ। यतः-आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्रयरोगदुःखानि, बन्धनव्यसनानि च ॥ २४ ॥ इति स्वमूर्खत्वं निन्दन्ती मृतौ। धर्मदत्तस्तथापि नागात्। धर्मदत्तवधूगृहे स्थिता वर्तते। अथ द्रव्यानागमनात् पण्याङ्गनाया दासीभिः रज इव प्रमाय॑ धर्मदत्तो निर्वा(ष्का)सितश्चिन्तयामास । अधममध्यम तेडइ अर्थले तीन जेडइ । तरु जिम नरुवेडइ । एकस्युं एक भेडइ। प्रियसिरि रजुरेडइ वेसपाडइ षवेडइ, विलगइ जीह केडइ नहितुं नाम फेडइ ॥ २५ ॥ पिहरूठी जामाणसाह नाउं घालइ कूय । के वेसा घर पाठवे, केइ रमाडइ जूय ॥२६॥ विसहरनइवेसाहर विसहरमंत पलंत। जे वेसाहरडंकिया, ताहि न मंत न तंत ॥ २७॥ इत्यादि चिन्तयन् स्वं निन्दन् श्रीपतिगृहं पृच्छन् स्वगेहमागान्निजगृहं पतितं पश्यन् माता(तृ)पितृविपत्तिं
॥७॥