________________
श्रीजैन कथासंग्रहः
ዘረዘ
प्रभुपार्श्वे चारित्रं स्वीकृतं ततो भरतोऽपि प्रभुं वन्दित्वा नगरमध्ये स्वगेहे समायातः, अथाऽऽयुधशालायामप्रविष्टस्य चक्रस्यानुगो भरतो निजसैन्ययुतो निजबन्धुबाहुबलिविजयार्थं चलितः, ततः समराङ्गणभूमौ परस्परं युद्धे जायमाने वैराग्यरञ्जिताऽऽत्मा बाहुबलिर्निजहस्तेन कृतलोचः संयमपरस्तत्रैव कायोत्सर्गप्याने संस्थितः तत्रासौ निजमनस्येवं विचारयामास, अथाऽहं चेत्प्रभुपदमधुनैव गमिष्यामि, तदा प्रथमदीक्षिता मे लघुबन्धवो वन्दनीया भविष्यन्ति, अतोऽत्रैव ध्यानस्थः केवलमुपार्जयिष्यामि, तदनन्तरं च प्रभोः पर्षदि यास्यामि, इति ध्यात्वा सोऽनन्यमनास्तत्रैव वर्ष यावत्कायोत्सर्गेण तस्थौ; अथ ते द्वे अपि ब्राह्मीसुंदरीसाव्यौ शुद्धं संयमं पालयन्त्यौ विविधतपांसि कुवन्त्यी प्रभुपादोपासनं चक्रतुः, अथ प्रभुणा निजज्ञानेन बाहुबलेरभिमानस्वरूपं विज्ञाय तस्य प्रतिबोधार्थमादिष्टे ते द्वे अपि साख्यौ बाहुबलेः पार्श्वे समागत्य प्रोचतुः, हे भ्रातः ! हस्तिस्कन्धसमारूढस्य पुरुषस्य कैवल्याप्तिर्न सम्भवति, अतो यूयं हस्तिस्कन्धाद् उत्तरत, इत्युक्त्वा ते साध्व्यौ ततो निवृत्य प्रभुपर्षदि समागते, अथ ध्यानस्थो बाहुबलिमुनिर्निजभगिन्योस्तयोः साध्व्योर्वचांसि श्रुत्वा निजहृदि विचारयामास, अहो ! एते मम भगिन्यौ साध्व्यौ जीवितान्तेऽपि नासत्यं वदेतां, किं चाऽहं नैव हस्तिस्कन्धाधिरूढोऽस्मि, इति विचारयतस्तस्य तदैव स्मृतिपथमागतं यथा आः ! ज्ञातं ! ताभ्यां
॥ अथ
श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यते ॥
ዘረዘ