________________
श्रीजैन कथासंग्रहः ॥९॥
साध्वीभ्यां सत्यमेव प्रोक्तमस्ति, अहं खलु मानहस्तिस्कन्धाधिरूढोऽस्मि, तेनैव केवलज्ञानं मत्तो दूरमेव नश्यति, यतः - मुष्णाति यः कृतंसमस्तसमीहितार्थं सञ्जीवनं विनय जीवितमङ्गभाजां ॥ जात्यादिमानविषजं विषमं विकारं । सन्मार्दवामृतरसेन नयस्व शान्तिं ॥ १ ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव । प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितं । कीर्तिं कैरविण मतङ्गज इव प्रोन्मूलयत्यज्ञ्जसा । मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणां ॥ २ ॥ अहो ! मे ते लघुबन्धवोऽपि पूर्वंगृहीतदीक्षालङ्कृता मत्तो वृद्धा एवं वन्दनाऽर्हाश्च सन्ति, अतो मम केवलज्ञानान्तरायकारकं मानं परित्यज्याधुनैव गत्वा तान् वन्दे, इत्यादि चिन्तयन् तेषां वन्दनार्थं गन्तुं यावत्ततो निजपादमुत्पाटयति तावदेवं शुभभावनया तदैव तस्य केवलज्ञानं समुत्पन्नं; ततः प्रभुसमवसरणे गत्वा स केवलिनां पर्षदि समुपविष्टः क्रमेण च सर्वकर्मक्षयं विधाय स मोक्षे जगाम; ब्राह्मीसुंदरीसाध्व्यावपि क्रमेण शुद्धसंयमं पालयन्त्यौ विविधतपः परायणे प्रान्ते चाऽष्टापदपर्वते गत्वानशनं विधाय मोक्षपदं प्रापतुः । इति श्री ब्राह्मीसुंदरीचरित्रं समाप्तं ॥ श्रीरस्तु ॥
॥ अथ
श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यते ॥
11811