________________
श्रीजैन कथासंग्रहः
॥अब श्रीब्राझीसुंदरीचरित्रं
प्रारभ्यते॥
र
॥५॥
सा निजतपःकरणं कथमपि न मुञ्चति, एवंविधानि तेषां वचांसि श्रुत्वा निजहदि खिन्नो भरतश्चिन्तयामास, यथा-धिग्वयं विषयासक्ताः। प्रोन्मत्ता इव दन्तिनः ॥ हिताहितमजानाना। मूर्छामो राज्यसम्पदि॥१॥अनेन वपुषा धन्यैः1 प्राप्यते मुक्तिरिन्दिरा॥अमुना नरकवासो। लभ्यते भोगवाञ्छ्या ॥२॥ आधिव्याधिशक मूत्र-मेदस्वेदात्मकं वपुः ॥ न शक्यं सुरभीकतु । पलाण्डुशकलैर्यथा ॥३॥ तस्मादियं मम भगिनी नूनं धन्यैव, यया संसारमोहस्त्वेवं त्यक्तः; यतः-वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः। पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः॥ निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः। सर्वः कार्यवशाज्जनोऽभिरमते नो कस्य को वल्लभः॥१॥ इत्यादिध्यात्वा भरतेन संदर्य पृष्टं, भो भगिनि ! किं त्वमेवं दुर्बला जाता? तत् श्रुत्वा तया प्रोक्तं, हे भ्रातः ! अहं सर्वथैव -संसारादुद्विग्नाऽस्मि, तेन मे मनः प्रव्रज्याग्रहणार्थमेवाभिलाषं करोति; यदयं संसारः केवलं मोहमय एवास्ति, चिन्तामणितुल्यमिमं मनुष्यभवं मूढ एव धर्मसाधनं विना वृथा गमयति; यतः-यदयं स्वामी यदिदं सद्य। सर्व चैतन्मिथ्या छा॥ यदयं कान्तो यदियं कान्ता। सोऽयं मोहो हंत दुरन्तः॥१॥जाता: कति न हि सुखसम्बन्धा। न विदन्त्येते जीवा अंधाः ॥ कटरे मोहनटस्य विलासः । सर्वो नव इव पुनराभासः॥२॥कोऽहं कस्मिन् कथमायातः। कामे जननीको मेतातः॥इति परिभावयत: संसारः।