________________
श्रीजैन कथासंग्रहः
॥अथ श्रीब्राझीसुंदरीचरित्रं
प्रारभ्यते॥
॥४॥
किं न भोजिता ॥ सुंदरीयं यदेवं सा । जातातिकृशदेहिनी ॥९॥ अथैवंविधानि भरतचक्रिवचांसि श्रुत्वा भयकम्पितशरीरास्ते भृत्याः सूपकाराश्च कृताञ्जलयो जगुः, हे राजन् ! अत्र भवतां गृहे कस्यापि वस्तुनो न्यूनता नाऽस्ति, केनापि ह्यस्याः सुंदर्या अपमानं कृतं नाऽस्ति, न च केनाप्यस्या अनादरो विहितोऽस्ति; अत्र भवद्गृहे घृतधान्यादि भूरितरं विद्यते, एवं कल्पवृक्षसन्निभे भवतां गेहे किमपि दुर्लभं नाऽस्ति परं हे स्वामिन् ! यदादितो भवद्धिरियं सुंदरी प्रव्रजन्ती निषिद्धा, तदादितो वैराग्यवासितहृदया संसारमसारमेव मन्यमाना स्वदेहेऽपि निरीहा सा साध्वीवाचाम्लतपःपरैवात्र स्थिताऽस्ति; यतो वैराग्यपरा सा नित्यं निजमनस्येवमेव ध्यायति, यथा-कश्चित्कालः स भावी जिनवचनरता वर्यसाध्वीसमेता। ग्रामादौ मासकल्पा स्वजनपरजनसमा मुक्तिलाभाभिमना ॥ पुण्यां पुण्यातिशायिप्रवरगुणयुतै निभिः सेवितां तां। भिक्षां निःसगचेताः प्रशमरसरताहं भविष्याम्यजनं ॥१ ॥दग्ध्वा मोहं समग्रं निरवधि विशदं ज्ञानमुत्पाद्य लोके। तीर्थ निर्वाणमार्ग शुभतरफलदं भव्यसाय कृत्वा ॥ गत्वा लोकान्तदेशं कलिमलरहितं सर्वशर्मातिशायि । लप्स्येऽहं मोक्षसौख्यं सहजनिजगुणं कोऽपि कालः स भावी ॥२॥ हे स्वामिन् ! एवं निजहदि नित्यं ध्यायन्त्येषा षष्टिवर्षसहस्राणि यावदाचाम्लतपःपरैव स्थितास्ति, तेनैवेयमतीवकृशीभूतशरीरा सजाता, अस्माभिर्बहुशो बोधिताऽपि