SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥अथ श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यते॥ . ॥३॥ 'पुंडरीकच प्रमोराद्यो गणधरो बभूव, इतश्चायुधशालायां समुत्पन्नं चक्ररत्नं प्रपूज्य तदनुसृतो भरतो निखिलान् देशान् साधयितुंचचाल; षट्खण्डमपि भरतक्षेत्रं साधयित्वा भरतः कुशलेनायोध्यायां प्राप्तः, प्रमुदिताच नगरलोकास्तं चक्रिणं विविधोपहारवस्तुगणैर्वर्धापयामासुः; अथ यदा भरतो देशान् साधयितुं गतस्तदादितश्चारित्रग्रहणाभिलाषा सुंदरी तु सकलेन्द्रियार्थपराङ्मुखा नित्यमाचाम्लतपःपरैवासीत्, तत्सपसाच साऽतीवकृशीभूतशरीरा जाताऽभूत्, अथ गृहे समागतश्चक्रीतां कृशीभूतदेहां विलोकयामास, यथा-तदा हिमालिसम्पात-दीनां कमलिनीमिव ॥ कललिमिव संशुष्कां। दिवा चन्द्रकलामिव ॥१॥ प्रम्लानरूपलावण्या-मस्थिशेषतनूलतां॥भरतः समीक्षते तत्र । सुंदरी सुन्दराशयां॥२॥ युग्मं ॥ कृशां भवान्तरं याता-मिवातिम्लथविग्रहां। निरीक्ष्य सुंदरी चक्री। स्वभृत्यानित्यभाषत ॥३॥ किंरे मम गृहे शस्य-सम्पत्तिस्तादृशीन हि॥ बीजसूरपि निर्बीजा। किं जाता पृथिवी ननु॥४॥न भोक्तुं लभते स्वैरं । किं नु सुन्दरीयं गृहे ॥ यदेवं हि कृशीभूतशरीरा सा विलोक्यते ॥ ५॥ वने मुग्धमृगीवेयं । निरादरपरा नु किं ॥ किं केनापि कृतं ह्यस्या। अपमानं सुदुस्सहं ॥ ६॥ अथवा किं शरीरेऽस्या। रोगोत्पत्तिर्बभूव नु ॥ मृताः सर्वे नु किं वैद्या। विविधौषधधारिणः ॥७॥ द्राक्षाः खजूरलवलोनालिकेरफलावलिः॥ किंन सम्पद्यते नूनं । मदीयोपवनेऽधुना॥८॥रे सूपकारा युष्माभिः । पुष्टान्नैः ॥३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy