________________
श्रीजैन कथासंग्रहः
॥अथ श्रीब्राह्मीसुंदरीचरित्रं
प्रारभ्यते॥
॥२॥
स्थापयित्वा परेषांबाहुबल्यादिपुत्राणांच पृथग् पृथग् देशान् विभज्य ददौ, ततो लोकान्तिकदेवसूचनन्तरं महाफलदायकं सांवत्सरिकं दानं दत्त्वा प्रभुर्दीक्षां जग्राह; यतः-चारित्रं तनुते धिनोति विनयं ज्ञानं नयत्युन्नति। पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमं॥ पुण्यं कन्दलयत्यघं विदलति स्वर्ग ददाति क्रमा-निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनं॥१॥क्रमेण स श्रीऋषभदेवप्रभुर्वटवृक्षस्याधः केवलज्ञानं प्राप; देवैश्च समवसरणं विहितं; देवमनुष्यादीनां पर्षदश्च मिलिताः; तदा प्रभुणापिधर्मदेशना प्रारब्धा, यथा-जराधिव्याधिदौर्गत्या-दिकनक्रचयाकुले ॥ किं सुखं प्राणिनामत्र । संसारे क्षारसागरे ॥१॥ दुरापास्तसुखे नित्यं । दुःखलक्षशताकुले॥रति बध्नाति संसारे । मरुस्थल इवात्र कः॥२॥ क्रूरावसाना नियतं । विषयाः खलवाक्यवत् ॥ पक्वं फलमिव प्रेम । पतनान्तं शरीरिणां ॥३॥ चातुर्गतिकसंसारं । दुःखरूपं विचार्य तत् ॥ यतध्वं खलु मोक्षाय । सर्वथा भो मनीषिणः ॥४॥स पुनर्लभः सर्व-सावधविरतिं विना॥ दीयतां सर्वदुःखेभ्य-स्तामादाय जलाञ्जलिं॥५॥ इत्यादिरूपां प्रमोधर्मदेशनां निशम्य भरतचक्रिणो बहुभिः सुतैर्दीक्षा गृहीता, तदा भरतस्यानुज्ञामादाय ब्राह्मचपि दीक्षां जग्राह, सुंदरी तु दीक्षायै बाहुबलिनानुज्ञातापि भरतेन निषिद्धा प्रभोः प्रथमा श्राविकाऽभूत्, एवं भरतस्तां सुंदरी निजां पट्टराजी विधातुं स्थापयामास, भरतोऽपिच प्रभोः प्रथमः श्रावकोऽभूत, भरतपुत्रः ।
॥२॥