________________
श्रीजैन कथासंग्रहः
।। अहंम्॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनमानु-पद्म-हेमचंद्र सद्गुरुभ्यो नमः ।।
॥अब मीबाझोसुंदरीचारिखं
प्रारभ्यते॥
॥१॥
॥अथ श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यते॥
लसत्तपः सुशीलादि । पालयन् सततं जनः ॥ सर्वकर्मक्षयं कृत्वा । ब्राह्मीव याति निर्वति ॥ अयोध्यायांनगर्या नाभेः कुलकरस्य श्रीऋषभाख्यस्तनयो राज्यं करोति स्म । तस्य सुमङ्गलाख्या राज्ञी पुत्रपुत्रीरूपं युगलमसूत, तयोश्च राज्ञा क्रमेण भरतो ब्राह्मी चेति नाम्नी विहिते, तस्य द्वितीया सुनंदाख्या रात्री बाहुबलिसुंदयाख्यं पुत्रपुत्रीयुगलमसूत, सुमंगला पुनरप्येकोनपञ्चाशत्पुत्रयुगलान्यसूत, उचितसमये चेन्द्रेणागत्य तस्य श्रीऋषभदेवप्रभो राज्याभिषको महतोत्सवेन विहितः ततः प्रभुणा सर्वलोकव्यवहारार्थ शिल्पादिसर्वकलाः प्रकाशिताः, ततः प्रभुाम्यै अष्टादशलीपी: पाठयामास, सुंदर्य च गणितशाखं शिक्षयामास, जन्मतस्त्र्यशीतिलक्षपूर्वगमनानन्तरं स श्रीऋषभदेवप्रभुर्भरतं स्वराज्ये