SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥१३॥ 8888888888888 तदहात् ॥ पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ॥ १४२ ॥ दथ्यौ चेत्युन्मना मायां, कृत्वाऽनेनाऽस्मिवञ्चितः। तदुपायं वैरशुद्धेः, क्वापि गत्वा करोम्यहम् ॥१४३॥ध्यायन्नित्यचलन्मूलदेवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटीं चैका, प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्प्राप-पारां तामवधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेऽटव्याः स तस्थिवान् ॥ १४५ ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्काह-जातिस्तत्र समाययौ ॥ १४६ ॥ तुष्टस्ततोऽवदन्मूल देवस्तमिति सादरम् ॥ कियडूरं क्व च ग्रामे, गन्तव्यं ते द्विजोत्तम !॥ १४७ ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं, ब्रूहि व त्वं गमिष्यसि ? ॥ १४८ ॥ धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ व्रजन्ती बने मध्यं-दिने पल्वलमाप्नुताम् ॥ क्षणं विश्रम्यतामत्रे-त्यूचे तत्रापरं द्विजः॥१५०॥ ततः प्रक्षाल्य वदन -पाणिपादादिधूर्तराट् ॥ दुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम्॥१५१॥ विप्रस्तुस्थगिकामघ्यासक्तूनाऽऽकृष्य वारिणा॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे॥१५२॥धूर्तो दध्यौ क्षुधार्तत्वादोज्यं नाऽऽदावऽदान्मम ॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ॥ १५३॥ विप्रस्तु मार्गमित्रायाऽप्यस्मै नो किञ्चिदप्यदात् ॥ याचको हि स्वयं प्रायो-ऽन्यस्मै दातुं न शक्नुयात् ॥ १५४ ॥ विप्रेऽथ ॥१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy