________________
008
श्रीमूलदेवनप
चरित्रम्
G
॥१२॥
प्राणिनः प्राज्यरागस्य, किंवा दुःखं न सम्भवेत् ? ॥ १२९ ।। यतः-देशत्यागं वह्नितापं, कुट्टनं च मुहर्महः ॥रागातिरेकान्मनिष्ठा-ऽप्यश्नुते किं पुनः पुमान् ? ॥ १३०॥ तदिदानीमुपायं कं, कुर्वे
तिष्ठामि यामि वा ? ॥ दिग्मूढवदिति ध्यायं-स्तत्रास्थाद्धूर्तराट् तदा ॥ १३१ ॥ ततोऽचलभटान् दृष्टि__सज्जयाहूय कुहिनी ॥ तयैवाञ्चलमादिक्ष-ठूत्तों निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा,
केशपाशे समाकृषत् ।। इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितरैर्वित्तैः, स्वीकृतां गणिकामिमाम् ॥ रिंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कञ्च निग्रहम् ? ॥ १३४ ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं कमे?॥१३५॥ निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तद्बलावसरो नाय-मिति ध्यात्वेत्युवाच सः॥१३६ ॥ यत्तुभ्यं रोचते तत्त्वं, साम्प्रतं कुरु सत्वरम् ॥ तच्छुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः॥१३७॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि॥ १३८॥ यदुक्तं-कस्य स्थान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य॥ कस्येह सुखं नित्यं, देवेन नखण्डितः को वा?॥१३९॥ दैवादापदमापनस्तन्नायं निग्रहोचितः॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः ॥१४० ॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ॥ १४१॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य
BBBBASE
॥१२॥
2