________________
श्रीजैन कथासंग्रहः
॥६॥
3888
भूतिस्तस्या गृहाद्ययौ ॥ ५५ ॥ देवदत्ताऽथ सन्मान्य, वैणिकं' विससर्ज तम् । भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥ ५६ ॥ आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमावयोः । उवाच खर्वः कुर्वेऽहमभ्यङ्गं ते यदीच्छसि ॥ ५७ ॥ देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? ।। सोऽवादीद्वेधि नो किन्तु, तज्ज्ञपार्श्वे स्थितोऽस्म्यहम् ॥ ५८ ॥ दास्यानीतं गृहीत्वाऽथ, पक्वतैलं स वामनः । प्रारेभेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ॥ ५९ ॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ।। ६० ।। प्रकृत्येदृशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ॥ ६१ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाब्जे प्रणम्य च ॥ इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्भुतम् ।। ६२ ।। दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यात - स्त्वं गुणैरेव तादृशैः ॥ ६३ ॥ तत्ते स्वाभाविकं रूपं द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे प्रदर्शय ।। ६४ ।। इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिकां रूप विपर्ययकरीं मुखात् ॥ ६५ ॥ नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् ॥ आविश्चक्रे निजं रूपं, जगज्जनमनोहरम् ॥ ६६ ॥ ( युग्मम्) ततस्तं दृक्चकोरैक- चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम - हर्षोच्चैः सा १ वामनम् । २ वीणावादकम् ।
2.9.
श्रीमूलदेवनृपचरित्रम्
॥६॥