________________
श्रीजैन कथासंग्रहः
॥५॥
७
॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ ४३ ॥ धूर्त्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वल्लकीम् ' ॥ अस्ति किन्तु दिशि प्राच्यां, पाटलीपुत्रपत्तनम् ॥ ४४ ॥ तत्र विक्रमसेनाह्नः, कलाचार्योऽस्ति धीनिधिः । मूलदेवोऽहञ्च किञ्चि द्वीणां विद्वस्तदाश्रयात् ॥ ४५ ॥ बिपञ्चीवादनाम्नायं सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः ॥ ४६ ॥ नाट्याचार्योऽथ तत्राऽऽगाद्विश्वभूतिर्महामतिः ॥ वामनायावदद्देव - दत्ता तं भरतोपमम् ॥ ४७ ॥ मूलदेवोऽब्रवीदेत- च्छिक्षितायाः पुरस्तव || अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥ ४८ ॥ विचारं भारतं तस्या- प्राक्षीद्धर्त्ताधिपस्ततः । विश्वभूतिस्तु तं मूढोऽवमेने वामनत्वतः ॥ ४९ ॥ ततः स तस्य भरत - व्याख्यां स्वैरं वितन्वतः । पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयद् ।। ५० ।। उवाचानुचितं किञ्चिद्विश्वभूतिस्ततो रुषा ।। सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥ ५१ ॥ रङ्गाचार्याङ्गनास्वेव', त्वमेवं नाटयेः क्रुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ॥ ५२ ॥ देवदत्ताऽथ तं खवं, पश्यन्ती स्निग्धया दशा | विश्वभूतेर्विलक्षत्वमपनेतुमदोऽवदत् ।। ५३ ।। भवन्तो नाधुंना स्वस्थाः सन्ति कायाकुलत्वतः । ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ॥ ५४ ॥ जायते नाट्यवेला त द्देवदत्ते ! व्रजाम्यहम् । एवं वदंस्ततो विश्व१ वीणाम् । २ नाट्याचार्य ।
333
श्रीमूलदेवनृप. चरित्रम्
॥५॥